Loading...
अथर्ववेद > काण्ड 4 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 12/ मन्त्र 3
    सूक्त - ऋभुः देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - रोहिणी वनस्पति सूक्त

    सं ते॑ म॒ज्जा म॒ज्ज्ञा भ॑वतु॒ समु॑ ते॒ परु॑षा॒ परुः॑। सं ते॑ मां॒सस्य॒ विस्र॑स्तं॒ समस्थ्यपि॑ रोहतु ॥

    स्वर सहित पद पाठ

    सम् । ते॒ । म॒ज्जा । म॒ज्ज्ञा । भ॒व॒तु॒ । सम् । ऊं॒ इति॑ । ते॒ । परु॑षा । परु॑: । सम् । ते॒ । मां॒सस्य॑ । विऽस्र॑स्तम् । सम् । अस्थि॑ । अपि॑ । रो॒ह॒तु॒ ॥१२.३॥


    स्वर रहित मन्त्र

    सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः। सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु ॥

    स्वर रहित पद पाठ

    सम् । ते । मज्जा । मज्ज्ञा । भवतु । सम् । ऊं इति । ते । परुषा । परु: । सम् । ते । मांसस्य । विऽस्रस्तम् । सम् । अस्थि । अपि । रोहतु ॥१२.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 12; मन्त्र » 3

    Translation -
    With marrow be the marrow, joined, thy limb united with thy limb, let what hath fallen of thy flesh, and the bone also grow again.

    इस भाष्य को एडिट करें
    Top