अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 2
सूक्त - बृहद्दिवोऽथर्वा
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - विजयप्रार्थना सूक्त
अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षां॒ त्वं नो॑ गो॒पाः परि॑ पाहि वि॒श्वतः॑। अपा॑ञ्चो यन्तु नि॒वता॑ दुर॒स्यवो॒ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥
स्वर सहित पद पाठअग्ने॑ । म॒न्युम् । प्र॒ति॒ऽनु॒दन् । परे॑षाम् । त्वम् । न॒: । गो॒पा: । परि॑ । पा॒हि॒ । वि॒श्वत॑: ।अपा॑ञ्च: । य॒न्तु॒ । नि॒ऽवता॑ । दू॒र॒स्यव॑: । अ॒मा । ए॒षा॒म् । चि॒त्तम् । प्र॒ऽबुधा॑म् । वि । ने॒श॒त् ॥३.२॥
स्वर रहित मन्त्र
अग्ने मन्युं प्रतिनुदन्परेषां त्वं नो गोपाः परि पाहि विश्वतः। अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत् ॥
स्वर रहित पद पाठअग्ने । मन्युम् । प्रतिऽनुदन् । परेषाम् । त्वम् । न: । गोपा: । परि । पाहि । विश्वत: ।अपाञ्च: । यन्तु । निऽवता । दूरस्यव: । अमा । एषाम् । चित्तम् । प्रऽबुधाम् । वि । नेशत् ॥३.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 2
Translation -
Baffling the rage of our opponents, O God, guard us as our protector from all directions. Let troublesome, low people go far away from us, and let the knowledge of the learned among these foes be lost!