अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 12
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - पथ्याबृहती
सूक्तम् - कृत्यापरिहरण सूक्त
कृ॑त्या॒कृतं वल॒गिनं॑ मू॒लिनं॑ शपथे॒य्य॑म्। इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेना॒ग्निर्वि॑ध्यत्व॒स्तया॑ ॥
स्वर सहित पद पाठकृ॒त्या॒ऽकृत॑म् । व॒ल॒गिन॑म् । मू॒लिन॑म् । श॒प॒थे॒य्य᳡म् । इन्द्र॑: । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । अ॒ग्नि: । वि॒ध्य॒तु॒ । अ॒स्तया॑ ॥३१.१२॥
स्वर रहित मन्त्र
कृत्याकृतं वलगिनं मूलिनं शपथेय्यम्। इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥
स्वर रहित पद पाठकृत्याऽकृतम् । वलगिनम् । मूलिनम् । शपथेय्यम् । इन्द्र: । तम् । हन्तु । महता । वधेन । अग्नि: । विध्यतु । अस्तया ॥३१.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 12
Translation -
May the king slay with mighty bolt, may the Commander-in-chiefwith his missile pierce the mischief-monger, who is low-bred, deep rooted,and slanderous.