अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 2
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यां ते॑ च॒क्रुः कृ॑क॒वाका॑व॒जे वा॒ यां कु॑री॒रिणि॑। अव्यां॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
स्वर सहित पद पाठयाम् । ते॒ । च॒क्रु: । कृ॒क॒वाकौ॑ । अ॒जे । वा॒ । याम् । कु॒री॒रिणि॑ । अव्या॑म् । ते॒ । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.२॥
स्वर रहित मन्त्र
यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि। अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥
स्वर रहित पद पाठयाम् । ते । चक्रु: । कृकवाकौ । अजे । वा । याम् । कुरीरिणि । अव्याम् । ते । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 2
Translation -
The mischief the enemies commit upon thy forest cock, goat, hornedram, and thy ewe, the same do I remove.