ऋग्वेद - मण्डल 1/ सूक्त 185/ मन्त्र 4
ऋषिः - अगस्त्यो मैत्रावरुणिः
देवता - द्यावापृथिव्यौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
अत॑प्यमाने॒ अव॒साव॑न्ती॒ अनु॑ ष्याम॒ रोद॑सी दे॒वपु॑त्रे। उ॒भे दे॒वाना॑मु॒भये॑भि॒रह्नां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
स्वर सहित पद पाठअत॑प्यमाने॒ इति॑ । अव॑सा । अव॑न्ती॒ इति॑ । अनु॑ । स्या॒म॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । उ॒भे इति॑ । दे॒वाना॑म् । उ॒भये॑भिः । अह्ना॑म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥
स्वर रहित मन्त्र
अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे। उभे देवानामुभयेभिरह्नां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
स्वर रहित पद पाठअतप्यमाने इति। अवसा। अवन्ती इति। अनु। स्याम। रोदसी इति। देवपुत्रे इति देवऽपुत्रे। उभे इति। देवानाम्। उभयेभिः। अह्नाम्। द्यावा। रक्षतम्। पृथिवी इति। नः। अभ्वात् ॥ १.१८५.४
ऋग्वेद - मण्डल » 1; सूक्त » 185; मन्त्र » 4
अष्टक » 2; अध्याय » 5; वर्ग » 2; मन्त्र » 4
अष्टक » 2; अध्याय » 5; वर्ग » 2; मन्त्र » 4
Meaning -
Free from sufferance, causing no pain, protective by inbuilt safeguards, both heaven and earth, children of Divinity and mothers of divinities, may, we pray, protect the noble powers of nature and humanity day and night along with all that is moving and non- moving in existence. Let us be in harmony with them and may they be good to us. May heaven and earth, we pray, protect us from the ravages of nature and worldly misfortune.