Loading...
ऋग्वेद मण्डल - 10 के सूक्त 1 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 1/ मन्त्र 2
    ऋषिः - त्रितः देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु । चि॒त्रः शिशु॒: परि॒ तमां॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥

    स्वर सहित पद पाठ

    सः । जा॒तः । गर्भः॑ । अ॒सि॒ । रोद॑स्योः । अग्ने॑ । चारुः॑ । विऽभृ॑तः । ओष॑धीषु । चि॒त्रः । शिशुः॑ । परि॑ । तमां॑सि । अ॒क्तून् । प्र । मा॒तृऽभ्यः॑ । अधि॑ । कनि॑क्रदत् । गाः॒ ॥


    स्वर रहित मन्त्र

    स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु । चित्रः शिशु: परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः ॥

    स्वर रहित पद पाठ

    सः । जातः । गर्भः । असि । रोदस्योः । अग्ने । चारुः । विऽभृतः । ओषधीषु । चित्रः । शिशुः । परि । तमांसि । अक्तून् । प्र । मातृऽभ्यः । अधि । कनिक्रदत् । गाः ॥ १०.१.२

    ऋग्वेद - मण्डल » 10; सूक्त » 1; मन्त्र » 2
    अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 2

    Meaning -
    Agni, born of the womb of earth and heaven covered in darkness over night, you are beautiful, lovely as a child and wonderful, and as you rise over night and darkness, you radiate your rays over mother heaven and earth proclaiming them bright, and immediately you are received and held over them in the herbs and trees for life.

    इस भाष्य को एडिट करें
    Top