Loading...
ऋग्वेद मण्डल - 10 के सूक्त 114 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 114/ मन्त्र 4
    ऋषिः - सध्रिर्वैरुपो धर्मो वा तापसः देवता - विश्वेदेवा: छन्दः - जगती स्वरः - निषादः

    एक॑: सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे । तं पाके॑न॒ मन॑सापश्य॒मन्ति॑त॒स्तं मा॒ता रे॑ळ्हि॒ स उ॑ रेळ्हि मा॒तर॑म् ॥

    स्वर सहित पद पाठ

    एकः॑ । सु॒ऽप॒र्णः । सः । स॒मु॒द्रम् । आ । वि॒वे॒श॒ । सः । इ॒दम् । विश्व॑म् । भुव॑नम् । वि । च॒ष्टे॒ । तम् । पाके॑न । मन॑सा । अ॒प॒श्य॒म् । अन्ति॑तः । तम् । मा॒ता । रे॒ळ्हि॒ । सः । ऊँ॒ इति॑ । रे॒ळ्हि॒ । मा॒तर॑म् ॥


    स्वर रहित मन्त्र

    एक: सुपर्णः स समुद्रमा विवेश स इदं विश्वं भुवनं वि चष्टे । तं पाकेन मनसापश्यमन्तितस्तं माता रेळ्हि स उ रेळ्हि मातरम् ॥

    स्वर रहित पद पाठ

    एकः । सुऽपर्णः । सः । समुद्रम् । आ । विवेश । सः । इदम् । विश्वम् । भुवनम् । वि । चष्टे । तम् । पाकेन । मनसा । अपश्यम् । अन्तितः । तम् । माता । रेळ्हि । सः । ऊँ इति । रेळ्हि । मातरम् ॥ १०.११४.४

    ऋग्वेद - मण्डल » 10; सूक्त » 114; मन्त्र » 4
    अष्टक » 8; अध्याय » 6; वर्ग » 16; मन्त्र » 4

    Meaning -
    One and One only is the cosmic spirit which pervades and manifests in the boundless ocean of space- and-time. It watches, illuminates and inspires this entire universe. I see it with pure and transparent mind manifesting at the closest. Prakrti which is the mother medium of its manifestation embraces it in love, and it too loves and embraces the mother medium. So also, divine Speech which is the mother medium of its expression embraces it in love, and it too loves and embraces the mother medium.

    इस भाष्य को एडिट करें
    Top