ऋग्वेद - मण्डल 10/ सूक्त 14/ मन्त्र 3
मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒ॠक्व॑भिर्वावृधा॒नः । याँश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्त्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति ॥
स्वर सहित पद पाठमात॑ली । क॒व्यैः । य॒मः । अङ्गि॑रःऽभिः । बृह॒स्पतिः॑ । ऋक्व॑ऽभिः । व॒वृ॒धा॒नः । यान् । च॒ । दे॒वाः । व॒वृ॒धुः । ये । च॒ । दे॒वान् । स्वाहा॑ । अ॒न्ये । स्व॒धया॑ । अ॒न्ये । म॒द॒न्ति॒ ॥
स्वर रहित मन्त्र
मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिॠक्वभिर्वावृधानः । याँश्च देवा वावृधुर्ये च देवान्त्स्वाहान्ये स्वधयान्ये मदन्ति ॥
स्वर रहित पद पाठमातली । कव्यैः । यमः । अङ्गिरःऽभिः । बृहस्पतिः । ऋक्वऽभिः । ववृधानः । यान् । च । देवाः । ववृधुः । ये । च । देवान् । स्वाहा । अन्ये । स्वधया । अन्ये । मदन्ति ॥ १०.१४.३
ऋग्वेद - मण्डल » 10; सूक्त » 14; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 14; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 14; मन्त्र » 3
Meaning -
Terrestrial fire and bodily heat grow by food and fuel, Yama, life time and life energy, grows by pranic energy, and Brhaspati, spirit and enlightenment, grows by Vedic words and divine joy. These capacities which divinities of earth and heaven and divine enlightenment augment, and the divinities of the environment on earth and above, which humans augment, grow mutually, the divinities by svaha oblations, and humans by svadha offerings of food, and thus they rejoice.