ऋग्वेद - मण्डल 10/ सूक्त 55/ मन्त्र 2
ऋषिः - वृहदुक्थो वामदेव्यः
देवता - इन्द्र:
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
म॒हत्तन्नाम॒ गुह्यं॑ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्य॑म् । प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशन्त॒ पञ्च॑ ॥
स्वर सहित पद पाठम॒हत् । तत् । नाम॑ । गुह्य॑म् । पु॒रु॒ऽस्पृक् । येन॑ । भू॒तम् । ज॒नयः॑ । येन॑ । भव्य॑म् । प्र॒त्नम् । जा॒तम् । ज्योतिः॑ । यत् । अ॒स्य॒ । प्रि॒यम् । प्रि॒याः । सम् । अ॒वि॒श॒न्त॒ । पञ्च॑ ॥
स्वर रहित मन्त्र
महत्तन्नाम गुह्यं पुरुस्पृग्येन भूतं जनयो येन भव्यम् । प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रियाः समविशन्त पञ्च ॥
स्वर रहित पद पाठमहत् । तत् । नाम । गुह्यम् । पुरुऽस्पृक् । येन । भूतम् । जनयः । येन । भव्यम् । प्रत्नम् । जातम् । ज्योतिः । यत् । अस्य । प्रियम् । प्रियाः । सम् । अविशन्त । पञ्च ॥ १०.५५.२
ऋग्वेद - मण्डल » 10; सूक्त » 55; मन्त्र » 2
अष्टक » 8; अध्याय » 1; वर्ग » 16; मन्त्र » 2
अष्टक » 8; अध्याय » 1; वर्ग » 16; मन्त्र » 2
Meaning -
Great and deeply glorious is that name and divine presence universally loved and adored by which you create all that has been and that which would be. That light and glory of this Indra is eternal, ever existent and dear to all into which all the five people that love him and are dear to him and all the five elements of nature retire (when the cycle of existence has run a full circle).