Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 15/ मन्त्र 44
    ऋषिः - परमेष्ठी ऋषिः देवता - अग्निर्देवता छन्दः - आर्षी गायत्री स्वरः - षड्जः
    6

    अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रꣳ हृ॑दि॒स्पृश॑म्। ऋ॒ध्यामा॑ त॒ऽओहैः॑॥४४॥

    स्वर सहित पद पाठ

    अग्ने॑। तम्। अ॒द्य। अश्व॑म्। न। स्तोमैः॑। क्रतु॑म्। न। भ॒द्रम्। हृ॒दि॒स्पृश॒मिति॑ हृदि॒ऽस्पृश॑म्। ऋ॒ध्याम॑। ते॒ ओहैः॑ ॥४४ ॥


    स्वर रहित मन्त्र

    अग्ने तमद्याश्वन्न स्तोमैः क्रतुं न भद्रँ हृदिस्पृशम् । ऋध्यामा तऽओहैः ॥


    स्वर रहित पद पाठ

    अग्ने। तम्। अद्य। अश्वम्। न। स्तोमैः। क्रतुम्। न। भद्रम्। हृदिस्पृशमिति हृदिऽस्पृशम्। ऋध्याम। ते ओहैः॥४४॥

    यजुर्वेद - अध्याय » 15; मन्त्र » 44
    Acknowledgment

    अन्वयः - हे अग्नेऽध्यापक! वयं ते तव सकाशादोहैः स्तोमैरद्याश्वं न भद्रं क्रतुं न तं हृदिस्पृशं प्राप्य सततमृध्याम॥४४॥

    पदार्थः -
    (अग्ने) अध्यापक! (तम्) विद्याबोधम् (अद्य) अस्मिन् वर्त्तमाने समये (अश्वम्) सुशिक्षितं तुरङ्गम् (न) इव (स्तोमैः) विद्यास्तुतिविशेषैर्वेदभागैः (क्रतुम्) प्रज्ञानम् (न) इव (भद्रम्) कल्याणकरम् (हृदिस्पृशम्) यो हृद्यात्मनि स्पृशति तम् (ऋध्याम) वर्धेमहि। अत्र अन्येषामपि॰ [अ॰६.३.१३७] इति दीर्घः (ते) तव सकाशात् (ओहैः) विद्यासुखप्रापकैः॥४४॥

    भावार्थः - अत्रोपमालङ्कारौ। अध्येतारो यथा सुशिक्षितेनाश्वेन सद्योऽभीष्टं स्थानं गच्छन्ति, यथा विद्वांसः सर्वशास्त्रबोधसंपन्नया कल्याणकर्त्र्या प्रज्ञया धर्मार्थकाममोक्षान् प्राप्नुवन्ति तथा तेभ्योऽध्यापकेभ्यो विद्यापारं गत्वा प्रशस्तां प्रज्ञां प्राप्य स्वयं वर्धेरन्, अन्यांश्च वेदाध्यापनोपदेशाभ्यामेधयेयुः॥४४॥

    इस भाष्य को एडिट करें
    Top