यजुर्वेद - अध्याय 28/ मन्त्र 16
ऋषिः - अश्विनावृषी
देवता - इन्द्रो देवता
छन्दः - भुरिगाकृतिः
स्वरः - पञ्चमः
5
दे॒वीऽऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे॒ पय॒सेन्द्र॑मवर्द्धताम्। इष॒मूर्ज॑म॒न्या व॑क्ष॒त्सग्धि॒ꣳ सपी॑तिम॒न्या नवे॑न॒ पूर्वं॒ दय॑माने पुरा॒णेन॒ नव॒मधा॑ता॒मूर्ज॑मू॒र्जा॑हुतीऽ ऊ॒र्जय॑माने॒ वसु॒ वार्या॑णि॒ यज॑मानाय शिक्षि॒ते व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑॥१६॥
स्वर सहित पद पाठदे॒वीऽइति॑ दे॒वी। ऊ॒र्जाहु॑ती॒ इत्यू॒र्जाऽआ॑हुती। दुघे॑। सु॒दुघे॒ इति॑ सु॒ऽदुघे॑। पय॑सा। इन्द्र॑म्। अ॒व॒र्द्ध॒ता॒म्। इष॑म्। ऊर्ज॑म्। अ॒न्या। व॒क्ष॒त्। सग्धि॑म्। सपी॑ति॒मिति॒ सऽपी॑तिम्। अ॒न्या। नवे॑न। पूर्व॑म्। दय॑माने॒ इति॒ दय॑माने। पु॒रा॒णेन॑। नव॑म्। अधा॑ताम्। ऊर्ज॑म्। ऊ॒र्जाहु॑ती॒ इत्यू॒र्जाऽआ॑हुती। ऊ॒र्जय॑मानेऽइत्यू॒र्जय॑माने। वसु॑। वार्या॑णि। यज॑मानाय। शि॒क्षि॒तेऽइति॑ शिक्षि॒ते। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। वी॒ता॒म्। यज॑ ॥१६ ॥
स्वर रहित मन्त्र
देवीऽऊर्जाहुती दुघे पयसेन्द्रमवर्धताम् । इषमूर्जमन्या वक्षत्सग्धिँ सपीतिमन्या नवेन पूर्वन्दयमाने पुराणेन नवमधातामूर्जाहुतीऽऊर्जयमाने वसु वृयाणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीताँयज ॥
स्वर रहित पद पाठ
देवीऽइति देवी। ऊर्जाहुती इत्यूर्जाऽआहुती। दुघे। सुदुघे इति सुऽदुघे। पयसा। इन्द्रम्। अवर्द्धताम्। इषम्। ऊर्जम्। अन्या। वक्षत्। सग्धिम्। सपीतिमिति सऽपीतिम्। अन्या। नवेन। पूर्वम्। दयमाने इति दयमाने। पुराणेन। नवम्। अधाताम्। ऊर्जम्। ऊर्जाहुती इत्यूर्जाऽआहुती। ऊर्जयमानेऽइत्यूर्जयमाने। वसु। वार्याणि। यजमानाय। शिक्षितेऽइति शिक्षिते। वसुवन इति वसुऽवने। वसुधेयस्येति वसुऽधेयस्य। वीताम्। यज॥१६॥
विषयः - पुनस्तमेव विषयमाह॥
अन्वयः - हे विद्वन् यथा वसुधेयस्य वसुवने वर्त्तमाने विद्वद्भिर्वसु वार्याणि शिक्षितेरात्रिदिने यजमानाय व्यवहारं वीतां तथोर्जाहुती देवी पयसा दुघे सुदुघे सत्याविन्द्रमवर्द्धतां तयोरन्या इषमूर्जं वक्षदन्या सपीतिं सग्धिं वक्षद् दयमाने सत्यौ नवेन पूर्वं पुराणेन नवमधातामूर्जयमाने ऊर्जाहुती ऊर्जमधातां तथा यज॥१६॥
पदार्थः -
(देवी) दिव्यगुणप्रापिके (ऊर्जाहुती) बलप्राणधारिके (दुघे) सुखानां प्रपूरिके (सुदुघे) सुष्ठु कामवर्द्धिके (पयसा) जलेन (इन्द्रम्) ऐश्वर्यम् (अवर्द्धताम्) वर्द्धयतः (इषम्) अन्नम् (ऊर्जम्) बलम् (अन्या) रात्रिः (वक्षत्) प्रापयति (सग्धिम्) समानं भोजनम् (सपीतिम्) पानेन सह वर्त्तमानम् (अन्या) दिनाख्या (नवेन) नवीनेन (पूर्वम्) (दयमाने) रात्र्यौ (पुराणेन) प्राचीनेन स्वरूपेण (नवम्) नवीनं स्वरूपम् (अधाताम्) दध्याताम् (ऊर्जम्) प्राणनम् (ऊर्जाहुती) बलस्यादात्र्यौ (ऊर्जयमाने) बलं कुर्वाणे (वसु) धनम् (वार्याणि) वरितुमर्हाणि कर्माणि (यजमानाय) सङ्गत्यै प्रवर्त्तमानाय जीवाय (शिक्षिते) विद्वद्भिरुपदिष्टे (वसुवने) धनदानाधिकरणे (वसुधेयस्य) वस्वैश्वर्यं धेयं यत्र तस्येश्वरस्य (वीताम्) व्याप्नुताम् (यज) संगच्छस्व॥१६॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! यथा रात्रिदिने वर्त्तमानस्वरूपेण पूर्वापरस्वरूपज्ञापिके आहारविहारप्रापिके वर्त्तेते तथाऽग्नौ हुता आहुतयः सर्वसुखप्रपूरिका जायन्ते। यदि मनुष्याः कालस्य सूक्ष्मामपि वेलां व्यर्थां नयेयुर्वाय्वादिपदार्थान्न शोधयेयुरदृष्टमनुमानेन न विद्युस्तर्हि सुखमपि नाप्नुयुः॥१६॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal