Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1482
ऋषिः - हर्यतः प्रागाथः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
उ꣢प꣣ स्र꣡क्वे꣢षु꣣ ब꣡प्स꣢तः कृण्व꣣ते꣢ ध꣣रु꣡णं꣢ दि꣣वि꣢ । इ꣡न्द्रे꣢ अ꣣ग्ना꣢꣫ नमः꣣꣬ स्वः꣢꣯ ॥१४८२॥
स्वर सहित पद पाठउ꣡प꣢꣯ । स्र꣡क्वे꣢꣯षु । ब꣡प्स꣢꣯तः । कृ꣣ण्व꣢ते । ध꣣रु꣡ण꣢म् । दि꣣वि꣢ । इ꣡न्द्रे꣢꣯ । अ꣣ग्ना꣢ । न꣡मः꣢꣯ । स्व३रि꣡ति꣢ ॥१४८२॥
स्वर रहित मन्त्र
उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि । इन्द्रे अग्ना नमः स्वः ॥१४८२॥
स्वर रहित पद पाठ
उप । स्रक्वेषु । बप्सतः । कृण्वते । धरुणम् । दिवि । इन्द्रे । अग्ना । नमः । स्व३रिति ॥१४८२॥
सामवेद - मन्त्र संख्या : 1482
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि स एव विषयो वर्ण्यते।
पदार्थः -
उपासकाः जनाः (स्रक्वेषु) आत्मसमर्पणेषु। [सृज विसर्गे इति धातोरौणादिकः क्वन् प्रत्ययः धातोः सम्प्रसारणं च।] (उप बप्सतः) उपेत्य दुरितानि भक्षयतः अग्नेः परमात्मनः। [बप्सति अत्तिकर्मा। निघं० २।८।] (दिवि) स्वात्मनि (धरुणम्) धारणम् (कृण्वते) कुर्वन्ति। ते च (इन्द्रे) परमैश्वर्यशालिनि विघ्नविदारके (अग्ना) अग्नौ अग्रनायके परमात्मनि (नमः) नमस्कारं समर्प्य (स्वः) प्रकाशं, लभन्ते इति शेषः ॥३॥
भावार्थः - ध्यानेन परमात्मानं स्वात्मनि धारयित्वा श्रद्धया नमस्कृत्य चोपासकाः परं ज्योतिः प्राप्तुमर्हन्ति ॥३॥
इस भाष्य को एडिट करें