Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1581
ऋषिः - भर्गः प्रागाथः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
6

त्व꣢꣫ꣳ ह्येहि꣣ चे꣡र꣢वे वि꣣दा꣢꣫ भगं꣣ व꣡सु꣢त्तये । उ꣡द्वा꣢वृषस्व मघव꣣न् ग꣡वि꣢ष्टय꣣ उ꣢दि꣣न्द्रा꣡श्व꣢मिष्टये ॥१५८१॥

स्वर सहित पद पाठ

त्व꣢म् । हि । आ । इ꣣हि । चे꣡र꣢꣯वे । वि꣣दाः꣢ । भ꣡ग꣢꣯म् । व꣡सु꣢꣯त्तये । उत् । वा꣢वृषस्व । मघवन् । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । उ꣢त् । इ꣣न्द्र । अ꣡श्व꣢꣯मिष्टये । अ꣡श्व꣢꣯म् । इ꣣ष्टये ॥१५८१॥


स्वर रहित मन्त्र

त्वꣳ ह्येहि चेरवे विदा भगं वसुत्तये । उद्वावृषस्व मघवन् गविष्टय उदिन्द्राश्वमिष्टये ॥१५८१॥


स्वर रहित पद पाठ

त्वम् । हि । आ । इहि । चेरवे । विदाः । भगम् । वसुत्तये । उत् । वावृषस्व । मघवन् । गविष्टये । गो । इष्टये । उत् । इन्द्र । अश्वमिष्टये । अश्वम् । इष्टये ॥१५८१॥

सामवेद - मन्त्र संख्या : 1581
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (इन्द्र) परमैश्वर्यशालिन् परमात्मन् ! (त्वं हि) त्वं खलु (चेरवे) योगाभ्यासिने मह्यम् (एहि) आगच्छ। (वसुत्तये) वसुदत्तये योगैश्वर्यदानेच्छुकाय मह्यम् (भगम्) योगैश्वर्यम् (विदाः) लम्भय। हे (मघवन्) दानवन् ! त्वम् (गविष्टये) गवाम् अध्यात्मप्रकाशकिरणानाम् इच्छवे मह्यम् (उद्वावृषस्व) अध्यात्मप्रकाशकिरणानाम् उत्सिञ्च। (अश्वमिष्टये) अश्वं प्राणम् इच्छति यः तस्मै मह्यम् (उद्वावृषस्व) प्राणबलम् उत्सिञ्च ॥१॥

भावार्थः - परमेश्वरं प्रति ध्यानेन योगाभ्यासी जनः प्राणानामूर्ध्वारोहणं कुर्वन् विविधान् अध्यात्मप्रकाशान् विविधा योगसिद्धीश्च लब्धुं पारयति ॥१॥

इस भाष्य को एडिट करें
Top