Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1601
ऋषिः - शुनःशेप आजीगर्तिः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

ऊ꣣र्ध्व꣡स्ति꣢ष्ठा न ऊ꣣त꣢ये꣣ऽस्मि꣡न्वाजे꣢꣯ श꣢त꣣क्र꣡तो꣢ । स꣢म꣣न्ये꣡षु꣢ ब्रवावहै ॥१६०१॥

स्वर सहित पद पाठ

ऊ꣣र्ध्वः꣢ । ति꣣ष्ठ । नः । ऊत꣡ये꣢ । अ꣢स्मि꣢न् । वा꣡जे꣢꣯ । श꣣तक्रतो । शत । क्रतो । स꣢म् । अ꣣न्ये꣡षु꣢ । अ꣣न् । ये꣡षु꣢꣯ । ब्र꣣वावहै ॥१६०१॥


स्वर रहित मन्त्र

ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो । समन्येषु ब्रवावहै ॥१६०१॥


स्वर रहित पद पाठ

ऊर्ध्वः । तिष्ठ । नः । ऊतये । अस्मिन् । वाजे । शतक्रतो । शत । क्रतो । सम् । अन्येषु । अन् । येषु । ब्रवावहै ॥१६०१॥

सामवेद - मन्त्र संख्या : 1601
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 5; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (शतक्रतो) अनन्तप्रज्ञ अनन्तकर्मन् इन्द्र परमात्मन् ! त्वम्(अस्मिन् वाजे) एतस्मिन् देवासुरसंग्रामे (नः ऊतये) अस्माकं रक्षायै (ऊर्ध्वः) जागरूकः (तिष्ठ) भव। (अन्येषु)इतरेष्वपि अवसरेषु त्वं च अहं च (संब्रवावहै) परस्परम् अन्तरङ्गं संलापं कुर्यावः ॥३॥२

भावार्थः - यदा यदा बाह्या आन्तरा वा देवासुरसंग्रामा उपतिष्ठन्ते तदा तदा परमेश्वरविश्वासं स्वात्मनि सबलं कृत्वाऽऽत्मोद्बोधनं प्राप्य सर्वानन्तरायान् विफलीकृत्य विजयः प्राप्तव्यः ॥३॥

इस भाष्य को एडिट करें
Top