Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1688
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
6
वि꣡भू꣢तरातिं विप्र चि꣣त्र꣡शो꣢चिषम꣣ग्नि꣡मी꣢डिष्व य꣣न्तु꣡र꣢म् । अ꣣स्य꣡ मेध꣢꣯स्य सो꣣म्य꣡स्य꣢ सोभरे꣣ प्रे꣡म꣢ध्व꣣रा꣢य꣣ पू꣡र्व्य꣢म् ॥१६८८॥
स्वर सहित पद पाठवि꣡भू꣢꣯तरातिम् । वि꣡भू꣢꣯त । रा꣡तिम् । विप्र । वि । प्र । चित्र꣡शो꣢चिषम् । चि꣣त्र꣢ । शो꣣चिषम् । अग्नि꣢म् । ई꣣डिष्व । यन्तु꣡र꣢म् । अ꣣स्य꣢ । मे꣡ध꣢꣯स्य । सो꣣म्य꣡स्य꣢ । सो꣣भरे । प्र꣢ । ई꣣म् । अध्वरा꣡य꣢ । पू꣡र्व्य꣢꣯म् ॥१६८८॥
स्वर रहित मन्त्र
विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम् । अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥१६८८॥
स्वर रहित पद पाठ
विभूतरातिम् । विभूत । रातिम् । विप्र । वि । प्र । चित्रशोचिषम् । चित्र । शोचिषम् । अग्निम् । ईडिष्व । यन्तुरम् । अस्य । मेधस्य । सोम्यस्य । सोभरे । प्र । ईम् । अध्वराय । पूर्व्यम् ॥१६८८॥
सामवेद - मन्त्र संख्या : 1688
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि परमात्मस्तुतिविषयमाह।
पदार्थः -
हे (सोभरे) सुष्ठु स्तोमानाम् आहर्तः [सुष्ठु आहरति स्तोमान् इति सोहरिः, स एव सोभरिः ‘हृग्रहोर्भश्छन्दसि’। वा० ८।२।३५ इति हस्य भः।] (विप्र) विद्वन् ! (विभूतरातिम्) व्यापकदानम्, (चित्रशोचिषम्) अद्भुतदीप्तिम्, (अस्य) एतस्य (सोम्यस्य) ब्रह्मानन्दरूपसोमसम्पादिनः (मेधस्य) उपासनायज्ञस्य(यन्तुरम्) यन्तारम्, (पूर्व्यम्) सनातनम् (ईम्) एनम् (अग्निम्) अग्रनेतारं जगदीश्वरम् (अध्वराय) जीवनयज्ञस्य साफल्याय (प्र ईडिष्व) प्रकर्षेण स्तुहि ॥२॥
भावार्थः - जीवनयज्ञस्य पूर्णतायै मनुष्यैरुपासनायज्ञोऽनुष्ठेयः ॥२॥
इस भाष्य को एडिट करें