Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1753
ऋषिः - अत्रिर्भौमः
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
7
न꣡ स꣢ꣳस्कृ꣣तं꣡ प्र मि꣢꣯मीतो꣣ ग꣢मि꣣ष्ठा꣡न्ति꣢ नू꣣न꣢म꣣श्वि꣡नोप꣢꣯स्तुते꣣ह꣢ । दि꣡वा꣢भिपि꣣त्वे꣢ऽव꣣सा꣡ग꣢मिष्ठा꣣ प्र꣡त्यव꣢꣯र्त्तिं दा꣣शु꣢षे꣣ श꣡म्भ꣢विष्ठा ॥१७५३॥
स्वर सहित पद पाठन । स꣣ꣳस्कृत꣢म् । स꣣म् । कृत꣢म् । प्र । मि꣣मीतः । ग꣡मि꣢꣯ष्ठा । अ꣡न्ति꣢꣯ । नू꣣न꣢म् । अ꣣श्वि꣡ना꣢ । उ꣡प꣢꣯स्तुता । उ꣡प꣢꣯ । स्तु꣣ता । इह । दि꣡वा꣢꣯ । अ꣡भिपित्वे꣢ । अ꣢भि । पित्वे꣢ । अ꣡व꣢꣯सा । आ꣡ग꣢꣯मिष्ठा । आ । ग꣣मिष्ठा । प्र꣡ति꣢꣯ । अ꣡व꣢꣯र्तिम् । दा꣣शु꣡षे꣢ । श꣡म्भ꣢꣯विष्ठा । शम् । भ꣣विष्ठा ॥१७५३॥
स्वर रहित मन्त्र
न सꣳस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह । दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा ॥१७५३॥
स्वर रहित पद पाठ
न । सꣳस्कृतम् । सम् । कृतम् । प्र । मिमीतः । गमिष्ठा । अन्ति । नूनम् । अश्विना । उपस्तुता । उप । स्तुता । इह । दिवा । अभिपित्वे । अभि । पित्वे । अवसा । आगमिष्ठा । आ । गमिष्ठा । प्रति । अवर्तिम् । दाशुषे । शम्भविष्ठा । शम् । भविष्ठा ॥१७५३॥
सामवेद - मन्त्र संख्या : 1753
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ प्राणापानयोर्महत्त्वमुच्यते।
पदार्थः -
(उपस्तुता) उपस्तुतौ, महत्त्ववर्णनेन प्रशंसितौ (नूनम्) निश्चयेन (इह) अस्मिन् देहे (अन्ति) अन्तिके (गमिष्ठा) अतिशयेन कृतगमनागमनौ (अश्विना) प्राणापानौ (संस्कृतम्) कृतसंस्कारं जीवनयज्ञम् (न प्र मिमीतः) न प्र हिंस्तः। [माङ् माने शब्दे च जुहोत्यादिः प्रपूर्वोऽत्र हिंसाया वर्तते परस्मैपदं व्यत्ययेन।] (दिवा अभिपित्वे) दिवसे प्राप्ते, प्रातःकाले इत्यर्थः (अवसा) रक्षणेन सह (आगमिष्ठा) आगमिष्ठौ अतिशयेन आगन्तारौ प्राणापानौ (अवर्तिम्) आधिव्याधिदुर्गतिदुर्बलतादिकम् (प्रति) प्रतिरुध्य (दाशुषे) हविर्दत्तवते अग्निहोत्रिणे (शं भविष्ठा) अतिशयेन सुखस्य भावयितारौ, जायेते इति शेषः। [गमिष्ठा, अश्विना इत्यादौ सर्वत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन प्रथमाद्विवचनस्याकारादेशः] ॥२॥२
भावार्थः - सम्यक् सेवितौ प्राणापानौ मनुष्यं रोगादिपाशेभ्य उद्धृत्य दीर्घायुषं कुरुतः ॥२॥
इस भाष्य को एडिट करें