Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1819
ऋषिः - अग्निः पावकः देवता - अग्निः छन्दः - सतोबृहती स्वरः - पञ्चमः काण्ड नाम -
4

इ꣣रज्य꣡न्न꣢ग्ने प्रथयस्व ज꣣न्तु꣡भि꣢र꣣स्मे꣡ रायो꣢꣯ अमर्त्य । स꣡ द꣢र्श꣣त꣢स्य꣣ व꣡पु꣢षो꣣ वि꣡ रा꣢जसि पृ꣣ण꣡क्षि꣢ दर्श꣣तं꣡ क्रतु꣢꣯म् ॥१८१९॥

स्वर सहित पद पाठ

इरज्य꣢न् । अ꣣ग्ने । प्रथयस्व । जन्तु꣡भिः꣢ । अ꣣स्मे꣡इति । रा꣡यः꣢꣯ । अ꣣र्मत्य । अ । मर्त्य । सः꣢ । द꣣र्शत꣡स्य꣢ । व꣡पु꣢꣯षः । वि । रा꣣जसि । पृण꣡क्षि꣢ । द꣡र्शत꣢म् । क्र꣡तु꣢꣯म् ॥१८१९॥


स्वर रहित मन्त्र

इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुम् ॥१८१९॥


स्वर रहित पद पाठ

इरज्यन् । अग्ने । प्रथयस्व । जन्तुभिः । अस्मेइति । रायः । अर्मत्य । अ । मर्त्य । सः । दर्शतस्य । वपुषः । वि । राजसि । पृणक्षि । दर्शतम् । क्रतुम् ॥१८१९॥

सामवेद - मन्त्र संख्या : 1819
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 2; मन्त्र » 4
Acknowledgment

पदार्थः -
हे (अमर्त्य) अमर (अग्ने) मार्गदर्शक परमात्मन् ! (इरज्यन्) ईश्वरो भवन् त्वम्। [इरज्यतिः ऐश्वर्यकर्मा। निघं० २।२१।] (जन्तुभिः) जातैः अभ्यासवैराग्यप्रणवजपमैत्रीकरुणामुदितोपेक्षाज्योतिष्मती- प्रज्ञाऋतम्भरा-प्रज्ञासमाध्यादिभिः। [जायन्ते जन्यन्ते वा ये ते जन्तवः। ‘कमिमनिजनिगाभायाहिभ्यश्च’ उ० १।७३ इति तुः प्रत्ययः।] (अस्मे) अस्मभ्यम् (रायः) अभ्युदयनिःश्रेयसरूपाणि ऐश्वर्याणि (प्रथयस्व) विस्तारय। (सः) असौ प्रसिद्धः त्वम् (दर्शतस्य) दर्शनीयस्य, त्वद्दर्शनसहायभूतस्य वा (वपुषः) अन्नमयप्राणमयमनोमयविज्ञान- मयानन्दमयरूपस्य देहपञ्चकस्य (वि राजसि) विशिष्टो राजा भवसि। त्वमेवास्माकं मनसि (दर्शतम्) ज्ञानदर्शनसाधनम् (क्रतुम्) संकल्पम् (पृणक्षि) संयोजयसि ॥४ ॥२

भावार्थः - जगदीश्वरस्यैव साहाय्येन योगसाधनारता उपासकाः स्वलक्ष्यपूर्तौ सफलीभवन्ति ॥४ ॥

इस भाष्य को एडिट करें
Top