Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 763
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

उ꣡पा꣢स्मै गायता नरः꣣ पवमानायेन्दवे । अभि देवाꣳ इयक्षते ॥७६३॥

स्वर सहित पद पाठ

उ꣡प꣢꣯ । अ꣣स्मै । गायत । नरः । प꣡व꣢꣯मानाय । इ꣡न्द꣢꣯वे । अ꣣भि꣢ । दे꣡वा꣢न् । इ꣡य꣢꣯क्षते ॥७६३॥


स्वर रहित मन्त्र

उपास्मै गायता नरः पवमानायेन्दवे । अभि देवाꣳ इयक्षते ॥७६३॥


स्वर रहित पद पाठ

उप । अस्मै । गायत । नरः । पवमानाय । इन्दवे । अभि । देवान् । इयक्षते ॥७६३॥

सामवेद - मन्त्र संख्या : 763
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
प्रथमः—जीवात्मपक्षे। हे (नरः) मनुष्याः ! यूयम् (देवान्) प्रकाशकान् मनोबुद्धिज्ञानेन्द्रियरूपान् (अभि इयक्षते) परस्परं संगमयित्रे। [अत्र स्वार्थे सन्।] (पवमानाय) मनःपावित्र्यं कुर्वाणाय (अस्मै) एतस्मै (इन्दवे) दीप्तिमते जीवात्मने, दीप्तिमन्तं जीवात्मानमभिलक्ष्य इति भावः (गायत) उद्बोधनगीतानि प्रोच्चारयत ॥ द्वितीयः—नृपतिपक्षे। हे (नरः) राष्ट्रस्य प्रजाजनाः ! यूयम् (देवान्) विदुषो जनान् (अभि इयक्षते) पूजयते, (पवमानाय) राष्ट्रप्रदेशेषु इतस्ततः संचरते। [पवते गतिकर्मा निघं० २।१४।] (अस्मै) एतस्मै (इन्दवे) तेजस्विने धनधान्यदुग्धादिभिः राष्ट्रभूमिक्लेदकाय च नृपतये। [इन्दुः इन्धेरुनत्तेर्वा। निरु० १०।२७।] (गायत) प्रोद्बोधनगीतानि अभिनन्दनगीतानि च प्रोच्चारयत ॥३॥२ अत्र श्लेषालङ्कारः ॥३॥

भावार्थः - जनैः स्वात्मानं स्वकीयराष्ट्रस्य नृपतिं चोद्बोध्य वैयक्तिको राष्ट्रियश्चोत्कर्षः सम्पादनीयः ॥३॥ अस्मिन् खण्डे जनानामभ्युदयनिःश्रेयसार्थं परमात्मनो नृपतेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top