Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 796
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
इ꣢न्द्र꣣मि꣢द्गा꣣थि꣡नो꣢ बृ꣣ह꣡दिन्द्र꣢꣯म꣣र्के꣡भि꣢र꣣र्कि꣡णः꣢ । इ꣢न्द्रं꣣ वा꣡णी꣢रनूषत ॥७९६॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯म् । इत् । गा꣣थि꣡नः꣢ । बृ꣣ह꣢त् । इ꣡न्द्र꣢꣯म् । अ꣣र्के꣡भिः꣢ । अ꣣र्कि꣡णः꣢ । इ꣡न्द्र꣢꣯म् । वा꣡णीः꣢꣯ । अ꣣नूषत ॥७९६॥
स्वर रहित मन्त्र
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । इन्द्रं वाणीरनूषत ॥७९६॥
स्वर रहित पद पाठ
इन्द्रम् । इत् । गाथिनः । बृहत् । इन्द्रम् । अर्केभिः । अर्किणः । इन्द्रम् । वाणीः । अनूषत ॥७९६॥
सामवेद - मन्त्र संख्या : 796
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके १९८ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र जीवात्मविषय उच्यते।
पदार्थः -
(इन्द्रम्) देहाधिष्ठातारं कामक्रोधादिशत्रुविद्रावकं वीरं जीवात्मानम् (इत्) किल (गाथिनः) गाथो गानं येषामस्तीति ते गाथिनः गायकाः (बृहत्) महत् (अनूषत) स्तुवन्ति। (इन्द्रम्) जीवात्मानम् (अर्किणः) मन्त्रपाठिनः (अर्कैः) वेदमन्त्रैः (अनूषत) स्तुवन्ति।(इन्द्रम्) तमेव जीवात्मानम् (वाणीः) इतराः वाचः (अनूषत) स्तुवन्ति ॥१॥२
भावार्थः - जीवात्मैव देहराज्यस्य सम्राड् विद्यते, यो मनोबुद्धिप्राणेन्द्रियाणि यथास्थानं सन्निधाय देहराज्यं सञ्चालयति ॥१॥
टिप्पणीः -
१. ऋ० १।७।१, साम० १९८। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रेऽस्मिन् प्रथमेन इन्द्रशब्देन परमेश्वरं, द्वितीयेन सूर्यम्, तृतीयेन च महाबलवन्तं वायुं गृह्णाति।