Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 31/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - आशापाला वास्तोष्पतयः
छन्दः - अनुष्टुप्
सूक्तम् - पाशविमोचन सूक्त
य आशा॑नामाशापा॒लाश्च॒त्वार॒ स्थन॑ देवाः। ते नो॒ निरृ॑त्याः॒ पाशे॑भ्यो मु॒ञ्चतांह॑सोअंहसः ॥
स्वर सहित पद पाठये । आशा॑नाम् । अ॒शा॒ऽपा॒ला: । च॒त्वार॑: । स्थन॑ । दे॒वा॒: । ते । न॒: । नि:ऋ॑त्या: । पाशे॑भ्य: । मुञ्चत॑ । अंह॑स:ऽअंहस: ॥
स्वर रहित मन्त्र
य आशानामाशापालाश्चत्वार स्थन देवाः। ते नो निरृत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ॥
स्वर रहित पद पाठये । आशानाम् । अशाऽपाला: । चत्वार: । स्थन । देवा: । ते । न: । नि:ऋत्या: । पाशेभ्य: । मुञ्चत । अंहस:ऽअंहस: ॥
अथर्ववेद - काण्ड » 1; सूक्त » 31; मन्त्र » 2
विषय - पुरुषार्थ और आनन्द के लिये उपदेश।
पदार्थ -
(देवाः) हे प्रकाशमय देवताओ ! (ये) जो तुम (आशानाम्) सब दिशाओं के मध्य (चत्वारः) प्रार्थना के योग्य [अथवा चार] (आशापालाः) आशाओं के रक्षक (स्थन) वर्तमान हो, (ते) वे तुम (नः) हमें (निर्ऋत्याः) अलक्ष्मी वा महामारी के (पाशेभ्यः) फंदों से और (अंहसो−अंहसः) प्रत्येक पाप से (मुञ्चत) छुड़ाओ ॥२॥
भावार्थ - मनुष्यों को प्रयत्नपूर्वक सब उत्तम पदार्थों [अथवा चारों पदार्थ, धर्म, अर्थ, काम और मोक्ष] को प्राप्त करके सब क्लेशों का नाश करना चाहिये ॥२॥
टिप्पणी -
२−आशानाम्। म० १। दिशानां मध्ये। आशा-पालाः। म० १। आकाङ्क्षानाम् पालकाः, लोकपालाः। चत्वारः। म० १। याचनीयाः प्रार्थनीयाः। चतुःसंख्यका धर्मार्थकाममोक्षा वा। स्थन। तप्तनप्तनथनाश्च। पा० ७।१।४५। इति अस भुवि लोटि मध्यमपुरुषबहुवचने थनादेशः। यूयं स्त भवत। देवाः। हे दिव्यगुणाः पुरुषाः। निःऋत्याः। निः+ऋ हिंसने क्तिन्। नितराम् ऋतिर्घृणा अशुभं वा यस्याः सा निर्ऋतिः, तस्याः। अलक्ष्म्याः। उपद्रवस्य। पाशेभ्यः। पश बाधे, ग्रन्थे−घञ्। बन्धनेभ्यः। मुञ्चत। मुच्लृ मोक्षे। मोचयत। अंहसः−अंहसः। अमेर्हुक् च। उ० ४।२१३। इति अम रोगे, पीडने−असुन्, हुक् आगमः। नित्यवीप्सयोः, पा० ८।१।४। इति द्विर्वचनम्। सर्वस्माद् दुःखात्, पापात् ॥