अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्र्यवसाना षट्पदाष्टिः
सूक्तम् - अध्यात्म सूक्त
यो मा॒रय॑ति प्रा॒णय॑ति॒ यस्मा॑त्प्रा॒णन्ति॒ भुव॑नानि॒ विश्वा॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठय: । मा॒रय॑ति । प्रा॒णय॑ति । यस्मा॑त् । प्रा॒णन्ति॑ । भुव॑नानि । विश्वा॑ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.३॥
स्वर रहित मन्त्र
यो मारयति प्राणयति यस्मात्प्राणन्ति भुवनानि विश्वा। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठय: । मारयति । प्राणयति । यस्मात् । प्राणन्ति । भुवनानि । विश्वा । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.३॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 3
विषय - परमात्मा और जीवात्मा का उपदेश।
पदार्थ -
(यः) जो [परमेश्वर] (मारयति) मारता है, और (प्राणयति) जिलाता है, (यस्मात्) जिससे (विश्वा) सब (भुवनानि) सत्तावाले (प्राणन्ति) जीवते हैं। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [परमेश्वर] के लिये... [म० १] ॥३॥
भावार्थ - जो परमेश्वर प्राणियों को कर्मानुसार दुख-सुख देता है और सब लोकों की रक्षा करता है, हे मनुष्यो ! तुम उसकी उपासना करो ॥३॥
टिप्पणी -
३−(यः) परमेश्वरः (मारयति) नाशयति (प्राणयति) जीवयति (यस्मात्) (प्राणन्ति) जीवन्ति (भुवनानि) सत्तायुक्तानि सत्त्वानि (विश्वा) सर्वाणि ॥