अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 24
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसाना सप्तपदा कृतिः
सूक्तम् - अध्यात्म सूक्त
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः। यो॒स्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पदः। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठय:। आ॒त्म॒ऽदा: । ब॒ल॒ऽदा: । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वा: । य: । अ॒स्य । ईशे॑ । द्वि॒ऽपद॑: । य: । चतु॑:ऽपद: । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.२४॥
स्वर रहित मन्त्र
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः। योस्येशे द्विपदो यश्चतुष्पदः। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठय:। आत्मऽदा: । बलऽदा: । यस्य । विश्वे । उपऽआसते । प्रऽशिषम् । यस्य । देवा: । य: । अस्य । ईशे । द्विऽपद: । य: । चतु:ऽपद: । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.२४॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 24
विषय - परमात्मा और जीवात्मा का उपदेश।
पदार्थ -
(यः) जो [परमेश्वर] (आत्मदाः) प्राणदाता और (बलदाः) बलदाता है, (यस्य यस्य) जिसके ही (प्रशिषम्) उत्तम शासन को (विश्वे) सब (देवाः) गतिमान् सूर्य चन्द्र आदि लोक (उपासते) मानते हैं। (यः) जो (अस्य) इस (द्विपदः) दो पाये [समूह] का और (यः) जो (चतुष्पदः) चौपाये [समूह] का (ईशे=ईष्टे) ईश्वर है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये.... [मन्त्र १] ॥२४॥
भावार्थ - जिस जगदीश्वर के शासन से सब सूर्य, चन्द्र, पृथिवी आदि लोक परस्पर धारण आकर्षण द्वारा अपने अपने मार्ग पर चलते हैं, और मनुष्य गौ आदि सब प्राणी मर्यादा में रहते हैं, उस परमात्मा की भक्ति से मनुष्य आत्मबल बढ़ावें ॥२४॥आवृत्ति छोड़ कर यह मन्त्र आ चुका है। अ० ४।२।१। और कुछ भेद से ऋग्वेद में है−१०।१२१।२, ३। और यजु० २५।१३, ११ ॥
टिप्पणी -
२४-अयं मन्त्रो व्याख्यातः-अ० ४।२।१। (यः) परमेश्वरः (आत्मदाः) प्राणदाता (बलदाः) बलदाता (यस्य) (विश्वे) सर्वे (उपासते) सेवन्ते (प्रशिषम्) अनुशासनम् (यस्य) (देवाः) गतिमन्तः सूर्यादिलोकाः (यः) (अस्य) (ईशे) तलोपः। ईष्टे। ईश्वरो भवति (द्विपदः) पादद्वयोपेतस्य (यः) (चतुष्पदः) पादचतुष्टययुक्तस्य ॥