अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 15
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसाना सप्तपदा निचृदतिधृतिः
सूक्तम् - अध्यात्म सूक्त
अ॒यं स दे॒वो अ॒प्स्वन्तः स॒हस्र॑मूलः पुरु॒शाको॒ अत्त्रिः॑। य इ॒दं विश्वं॒ भुव॑नं॒ जजा॑न। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठअ॒यम् । स: । दे॒व: । अ॒प्ऽसु । अ॒न्त: । स॒हस्र॑ऽमूल: । पु॒रु॒ऽशाक॑: । अत्त्रि॑: । य: । इ॒दम् । विश्व॑म् । भुव॑नम् । ज॒जान॑ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् । ॥३.१५॥
स्वर रहित मन्त्र
अयं स देवो अप्स्वन्तः सहस्रमूलः पुरुशाको अत्त्रिः। य इदं विश्वं भुवनं जजान। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठअयम् । स: । देव: । अप्ऽसु । अन्त: । सहस्रऽमूल: । पुरुऽशाक: । अत्त्रि: । य: । इदम् । विश्वम् । भुवनम् । जजान । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् । ॥३.१५॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 15
विषय - परमात्मा और जीवात्मा का उपदेश।
पदार्थ -
(अयम्) यह (सः) वही (देवः) प्रकाशमान, (सहस्रमूलः) सहस्रों [अनगणित] कारणों में रहनेवाला, (पुरुशाकः) बहुत शक्तियोंवाला (अत्त्रिः) नित्यज्ञानी [परमेश्वर] (अप्सु) प्रजाओं में (अन्तः) भीतर है। (यः) जिस ने (इदम्) इस (विश्वम्) सब (भुवनस्य) सत्ता को (जजान) उत्पन्न किया है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये.... [मन्त्र १] ॥१५॥
भावार्थ - विद्वान् लोग सर्वशक्तिमान्, सर्वज्ञ, सर्वजनक परमात्मा को प्रत्येक कारण में आदि कारण खोजकर उसकी भक्ति करें ॥१५॥
टिप्पणी -
१५−(अयम्) प्रत्यक्षः (सः) (देवः) प्रकाशमानः (अप्सु) प्रजासु (अन्तः) मध्ये (सहस्रमूलः) सहस्रेष्वसंख्यातेषु मूलेषु कारणेषु विद्यमानः (पुरुशाकः) शक्लृ शक्तौ-घञ्। बहुशक्तियुक्तः (अत्त्रिः) अ० १३।२।४। नित्यज्ञानी परमेश्वरः (यः) परमेश्वरः (इदम्) दृश्यमानम् (विश्वम्) सर्वम् (भुवनम्) सत्ताम् (जजान) उत्पादयामास ॥