अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 6
सूक्त - भरद्वाजः
देवता - मरुद्गणः, ब्रह्मद्विट्
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
अती॑व॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यो निन्दि॑षत्क्रि॒यमा॑णम्। तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विषं॒ द्यौर॑भि॒संत॑पाति ॥
स्वर सहित पद पाठअति॑ऽइव । य: । म॒रु॒त॒: । मन्य॑ते । न॒: । ब्रह्म॑ । वा॒ । य: । निन्दि॑षत् । क्रि॒यमा॑णम् । तपूं॑षि । तस्मै॑ । वृ॒जि॒नानि॑ । स॒न्तु॒ । ब्र॒ह्म॒ऽद्विष॑म् । द्यौ : । अ॒भि॒ऽसंत॑पाति ॥१२.६॥
स्वर रहित मन्त्र
अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम्। तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति ॥
स्वर रहित पद पाठअतिऽइव । य: । मरुत: । मन्यते । न: । ब्रह्म । वा । य: । निन्दिषत् । क्रियमाणम् । तपूंषि । तस्मै । वृजिनानि । सन्तु । ब्रह्मऽद्विषम् । द्यौ : । अभिऽसंतपाति ॥१२.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 6
विषय - सबकी रक्षा के लिये उपदेश।
पदार्थ -
(मरुतः) हे शत्रुओं को मारनेवाले शूरो ! (यः) जो [दुष्ट पुरुष] (नः) हम पर (अतीव=अतीत्य एव) हाथ बढ़ाकर (मन्यते=मानयते) मान करे, (वा) अथवा (यः) जो (क्रियमाणम्) उपयुक्त किये हुए (ब्रह्म) [हमारे] वेदविज्ञान वा धन की (निन्दिषेत्) निन्दा करे। (वृजिनानि) [उसके] पाप कर्म (तस्मै) उसकेलिये (तपूंषि) तापकारी [तुपकरूप] (सन्तु) हों। (द्यौः) दीप्यमान परमेश्वर (ब्रह्मद्विषम्) वेदविरोधी जन को (अभिसंतपाति) सब प्रकार से सन्ताप दे ॥६॥
भावार्थ - जो मनुष्य वेदों की सर्वोपकारी आज्ञाओं का उल्लङ्घन करे, उसे शूरवीर पुरुष योग्य दण्ड देवें, वह दुराचारी परमेश्वर की न्यायव्यवस्था से भी कष्ट भोगता है ॥६॥ यह मन्त्र कुछ भेद से ऋग्वेद ६।५२।२ है ॥
टिप्पणी -
६–अतीव। अतिरतिक्रमणे च। पा० १।४।९५। इव अवधारणे, प्रादिसमासः। अत्येव। अतिशयेन अतिक्रम्य तिरस्कृत्य। यः। विरोधी जनः। मरुतः। अ० १।२०।१। मृङ् प्राणत्यागे अन्तर्भावितण्यर्थः–इति। हे शत्रुनाशकाः। शूराः। मन्यते। मन गर्वे चुरादिः, छन्दसि दिवादिः। मानयते। गर्वयते। नः। अस्मान्। ब्रह्म। अ० १।८।४। वेदविज्ञानम्। धनम्। निन्दिषत्। णिदि कुत्सायाम्, इदित्त्वान्नुम्। लेटोऽडाटौ। पा० ३।४।९४। इत्यडागमः। सिब् बहुलं लेटि। ३।१।३४। इति सिप्। निन्देत्। दूषयेत्। क्रियमाणम्। कृञ् करणे–कर्मणि शानच्, मुक् च। अनुष्ठीयमानम्। विधीयमानम्। तपूंषि। अर्त्तिपॄवपियजितनिधनितपिभ्यो नित्। उ० २।११६। इति तप दाहे–उसि, नित्त्वाद् आद्युदात्तः। तापकानि तेजांसि आयुधानि वा–इति सायणः। वृजिनानि। वृजेः किच्च। उ० २।४७। इति वृजी वर्जने–इनच्। धर्मवर्जकानि पापकर्माणि। ब्रह्मद्विषम्। ब्रह्म+द्विष अप्रीतौ–क्विप्। वेदविरोधिनम्। द्यौः। गमेर्डोः। उ० २।६७। इति द्युत दीप्तौ–डो। गोतो णित्। पा० ७।१।९०। इति वृद्धिः। द्योतमानः परमेश्वरः। अभि–सम्–तपाति। तप दाहे–लेट्। आडागमः। सर्वतः संदहेत् ॥