अथर्ववेद - काण्ड 2/ सूक्त 13/ मन्त्र 5
सूक्त - अथर्वा
देवता - विश्वदेवाः
छन्दः - विराड्जगती
सूक्तम् - दीर्घायु प्राप्ति सूक्त
यस्य॑ ते॒ वासः॑ प्रथमवा॒स्यं॑१ हरा॑म॒स्तं त्वा॒ विश्वे॑ऽवन्तु दे॒वाः। तं त्वा॒ भ्रात॑रः सु॒वृधा॒ वर्ध॑मान॒मनु॑ जायन्तां ब॒हवः॒ सुजा॑तम् ॥
स्वर सहित पद पाठयस्य॑ । ते॒ । वास॑: । प्र॒थ॒म॒ऽवा॒स्य᳡म् । हरा॑म: । तम् । त्वा॒ । विश्वे॑ । अ॒व॒न्तु॒ । दे॒वा: । तम् । त्वा॒ । भ्रात॑र: । सु॒ऽवृधा॑ । वर्ध॑मानम् । अनु॑ । जा॒य॒न्ता॒म् । ब॒हव॑: । सुऽजा॑तम् ॥१३.५॥
स्वर रहित मन्त्र
यस्य ते वासः प्रथमवास्यं१ हरामस्तं त्वा विश्वेऽवन्तु देवाः। तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम् ॥
स्वर रहित पद पाठयस्य । ते । वास: । प्रथमऽवास्यम् । हराम: । तम् । त्वा । विश्वे । अवन्तु । देवा: । तम् । त्वा । भ्रातर: । सुऽवृधा । वर्धमानम् । अनु । जायन्ताम् । बहव: । सुऽजातम् ॥१३.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 13; मन्त्र » 5
विषय - ब्रह्मचारी के समावर्त्तन, विद्यासमाप्ति पर वस्त्र आदि के लिये उपदेश।
पदार्थ -
[हे ब्रह्मचारिन्] (यस्य) जिस (ते) तेरे (प्रथमवास्यम्) प्रधानता से धारणयोग्य (वासः) वस्त्र को (हरामः) हम लाते हैं [धारण कराते हैं] (तम्) उस (त्वा) तेरी (विश्वे) सब (देवाः) उत्तम गुण (अवन्तु) रक्षा करें। और (तम्) उस (सुवृधा) उत्तम सम्पत्ति से (वर्धमानम्) बढ़ते हुए, (सुजातम्) पूजनीय जन्मवाले (त्वा) तेरे (अनु) पीछे (बहवः) बहुत से (भ्रातरः) भाई (जायन्ताम्) प्रकट हों ॥५॥
भावार्थ - जब ब्रह्मचारी इस प्रकार विद्वानों में बड़ा मान पावे, तब वह उत्तम गुणों की प्राप्ति से ऐसी वृद्धि और उन्नति करे कि उसी के समान उसके दूसरे भ्रातृगण संसार में यश प्राप्त करें ॥५॥
टिप्पणी -
टिप्पणी–इस सूक्त में (वासः) पद का चोला अर्थात् मनुष्यशरीर अर्थ करने से आध्यात्मिक विषय का विनियोग भी हो सकता है। यथा मन्त्र २ देखिये ॥ ५–वासः। वस्त्रम्। शरीरम्। प्रथमवास्यम्। प्रथ ख्यातौ–अमच्। ऋहलोर्ण्यत्। पा० ३।१।१२४। इति वस आच्छादने–कर्मणि ण्यत्। तित् स्वरितम्। पा० ६।१।१८५। इति स्वरितम्। प्रथमं प्रधानत्वेन वास्यं परिधानीयम्। हरामः। प्रापयामः। तम्। तादृशम्। त्वा। त्वां ब्रह्मचारिणमात्मानं वा। अवन्तु। रक्षन्तु। भ्रातरः। नप्तृनेष्टृत्वष्टृहोतृपोतृ०। उ० २।९५। इति टुभ्राजृ दीप्तौ–तृन्। यद्वा। भृञ् भरणे–तृन्। भ्राजमानाः परस्परं दीप्यमानाः। परस्परपोषकाः। सहोदराः। भ्रातृवत् परस्परपोषणशीलाः पुरुषाः। सुवृधा। वृधु वृद्धौ–क्विप्। महावृद्ध्या। समृद्ध्या। वर्धमानम्। वृधु–शानच्। वृद्धिविशिष्टम्। अनु। अनुसृत्य जायन्ताम्। जनी प्रादुर्भावे। प्रादुर्भवन्तु। उत्पद्यन्ताम्। बहवः। अनेकाः। सु–जातम्। जनी–क्त। प्रशस्तजन्मानम् ॥