अथर्ववेद - काण्ड 2/ सूक्त 14/ मन्त्र 4
सूक्त - चातनः
देवता - शालाग्निः
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - दस्युनाशन सूक्त
भू॑त॒पति॒र्निर॑ज॒त्विन्द्र॑श्चे॒तः स॒दान्वाः॑। गृ॒हस्य॑ बु॒ध्न आसी॑नास्ता॒ इन्द्रो॒ वज्रे॒णाधि॑ तिष्ठतु ॥
स्वर सहित पद पाठभू॒त॒ऽपति॑: । नि: । अ॒ज॒तु॒ । इन्द्र॑: । च॒ । इ॒त: । स॒दान्वा॑: । गृ॒हस्य॑ । बु॒ध्ने । आसी॑ना: । ता: । इन्द्र॑: । वज्रे॑ण । अधि॑ । ति॒ष्ठतु॒ ॥१४.४॥
स्वर रहित मन्त्र
भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः। गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु ॥
स्वर रहित पद पाठभूतऽपति: । नि: । अजतु । इन्द्र: । च । इत: । सदान्वा: । गृहस्य । बुध्ने । आसीना: । ता: । इन्द्र: । वज्रेण । अधि । तिष्ठतु ॥१४.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 14; मन्त्र » 4
विषय - निर्धनता मनुष्यों को प्रयत्न से नष्ट करनी चाहिये।
पदार्थ -
(भूतपतिः) न्याय वा सत्य वा प्राणियों का रक्षक (च) और (इन्द्रः) परम ऐश्वर्यवाला पुरुष (सदान्वाः) सदा चिल्लानेवाली, अथवा, दानवों दुष्कर्मियों के साथ रहनेवाली [निर्धनता की पीड़ाओं] को (इतः) यहाँ से (निर्+अजतु) निकाल देवे। (इन्द्रः) वही महाप्रतापी पुरुष (गृहस्य) [हमारे] घर की (बुध्ने) जड़ में (आसीनाः) बैठी हुई (ताः) उन [पीड़ाओं] को (वज्रेण) वज्र [कुल्हाड़े आदि] से (अधि+तिष्ठतु) वश में करे ॥४॥
भावार्थ - क्लेशों के भीतरी कारणों को भली-भाँति विचारकर राजा और गृहपति सब पुरुषों को सचेत करके क्लेशों से बचावें और आनन्द में रक्खें ॥४॥
टिप्पणी -
४–भूतपतिः। भू सत्तायां प्राप्तौ च–कर्त्तरि क्त। भूतस्य न्यायस्य सत्यस्य वा, अथवा भूतानां प्राणिनां पालकः पुरुषः। निर्। निसार्य। अजतु। प्रेरयतु। बहिष्करोतु। इन्द्रः। अ० १।२।३। इदि परमैश्वर्ये–रन्। इन्दतेर्वैश्वर्यकर्मण इदञ्च्छत्रूणां दारयिता वा द्रावयिता वा दरयिता च यज्वानाम् निरु० १०।८। परमैश्वर्यवान् महात्मा। इतः। अस्मात् स्थानात्। सदान्वाः। म० १। सदा+नोनुवाः। आक्रोशकारिणीः, यद्वा। स+दानवाः, दानवैः सह वर्त्तमानाः पीडाः ॥