अथर्ववेद - काण्ड 2/ सूक्त 28/ मन्त्र 3
सूक्त - शम्भुः
देवता - जरिमा
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
त्वमी॑शिषे पशू॒नां पार्थि॑वानां॒ ये जा॒ता उ॒त वा॒ ये ज॒नित्राः॑। मेमं प्रा॒णो हा॑सीन्मो अपा॒नो मेमं मि॒त्रा व॑धिषु॒र्मो अ॒मित्राः॑ ॥
स्वर सहित पद पाठत्वम् । ई॒शि॒षे॒ । प॒शू॒नाम् । पार्थि॑वानाम् । ये । जा॒ता: । उ॒त । वा॒ । ये । ज॒नित्रा॑: । मा । इ॒मम् । प्रा॒ण: । हा॒सी॒त् । मो इति॑ । अ॒पा॒न: । मा । इ॒मम् । मि॒त्रा: । व॒धि॒षु॒: । मो इति॑ । अ॒मित्रा॑: ॥२८.३॥
स्वर रहित मन्त्र
त्वमीशिषे पशूनां पार्थिवानां ये जाता उत वा ये जनित्राः। मेमं प्राणो हासीन्मो अपानो मेमं मित्रा वधिषुर्मो अमित्राः ॥
स्वर रहित पद पाठत्वम् । ईशिषे । पशूनाम् । पार्थिवानाम् । ये । जाता: । उत । वा । ये । जनित्रा: । मा । इमम् । प्राण: । हासीत् । मो इति । अपान: । मा । इमम् । मित्रा: । वधिषु: । मो इति । अमित्रा: ॥२८.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 28; मन्त्र » 3
विषय - बुद्धि से विवाद करे, इसका उपदेश।
पदार्थ -
[हे परमेश्वर !] (त्वम्) तू (पार्थिवानाम्) पृथिवी पर के (पशूनाम्) पशुओं [जीवों] का (ईशिषे) स्वामी है, (ये) जो (जाताः) उत्पन्न हो चुके हैं (उत) और (वा) अथवा (ये) जो (जनित्राः) उत्पन्न होंगे। (इमम्) इस पुरुष को (प्राणः) प्राण [बाहिर जानेवाला श्वास] (मा हासीत्) न त्यागे, (मो=मा+उ) और न (अपानः) अपान [भीतर आनेवाला प्रश्वास]। (इमम्) इस पुरुष को (मित्राः) मित्र (मा वधिषुः) न मारें, (मो=मा+उ) और न (अमित्राः) अमित्र [विरोधी अर्थात् वैरी लोग] ॥३॥
भावार्थ - परमेश्वर महा उपकार करके संसार के चर और अचर का शासक और नियन्ता है, इसी प्रकार मनुष्य को उपकारी होकर प्रयत्न करना चाहिये कि उसका स्वयम् आत्मा और अन्य मित्र अथवा शत्रु सब प्रीति से आनन्द बढ़ाते रहें ॥३॥
टिप्पणी -
३–त्वम्। हे अग्ने, परमेश्वर ! ईशिषे। ईश ऐश्वर्ये। ईशः से। पा० ७।२।७७। इडागमः। ईश्वरोऽधिपतिरसि। पशूनाम्। अ० २।२६।१। द्विपाच्चतुष्पाद्रूपाणां प्राणिनाम्। अधीगर्थदयेशां कर्मणि। पा० २।३।५२। इति षष्ठी। पार्थिवानाम्। दित्यदितीति०। पा० ४।१।८५। अत्र वार्त्तिकम्। पृथिव्या ञाञौ। इति पृथिवी–अञ्। ञित्वाद् आद्युदात्तः। पृथिव्यां भवानाम्। ये। पशवः। जाताः। उत्पन्नाः। उत। अपि। जनित्राः। अशित्रादिभ्य इत्रोत्रौ। उ० ४।१७३। इति जनु जनी–इत्र। जनिष्यमाणाः। उत्पत्स्यमानाः। इमम्। प्राणिनम्। प्राणः। अ० २।१५।१। ऊर्ध्वकायस्थो वायुः। मा हासीत्। ओहाक् त्यागे–लुङ्। न माङ्योगे। पा० ६।४।४। अडभावः। मा त्याक्षीत् मो। मा+उ। मैव। अपानः। अप+अन प्राणने, जीवने–अच्। अपानिति अधो निःसरतीति। अधरकायस्थो वायुः। मित्राः। स्नेहिनः। बान्धवाः। मा वधिषुः। लुङि च। पा० २।७४।४३। इति हन्तेर्वधादेशः। मा हिंसिषुः। अमित्राः। अमेर्द्विषति चित्। उ० ४।१७४। इति अम रोगे, पीडने–इत्रच्। पीडकाः। शत्रवः ॥