अथर्ववेद - काण्ड 2/ सूक्त 36/ मन्त्र 8
सूक्त - पतिवेदनः
देवता - ओषधिः
छन्दः - निचृत्पुरउष्णिक्
सूक्तम् - पतिवेदन सूक्त
आ ते॑ नयतु सवि॒ता न॑यतु॒ पति॒र्यः प्र॑तिका॒म्यः॑। त्वम॑स्यै धेहि ओषधे ॥
स्वर सहित पद पाठआ । ते॒ । न॒य॒तु॒ । स॒वि॒ता । न॒य॒तु॒ । पति॑: । य: । प्र॒ति॒ऽका॒म्य᳡: । त्वम् । अ॒स्यै॒ । धे॒हि॒ । ओ॒ष॒धे॒ ॥३६.८॥
स्वर रहित मन्त्र
आ ते नयतु सविता नयतु पतिर्यः प्रतिकाम्यः। त्वमस्यै धेहि ओषधे ॥
स्वर रहित पद पाठआ । ते । नयतु । सविता । नयतु । पति: । य: । प्रतिऽकाम्य: । त्वम् । अस्यै । धेहि । ओषधे ॥३६.८॥
अथर्ववेद - काण्ड » 2; सूक्त » 36; मन्त्र » 8
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
[हे कन्ये] (सविता) सर्वप्रेरक, सर्वजनक परमेश्वर (ते) तेरेलिये [उस पति को] (आ नयतु) मर्यादापूर्वक चलावे और (नयतु) नायक बनावे, (यः पतिः) जो पति (प्रतिकाम्यः) प्रतिज्ञापूर्वक चाहने योग्य है। (ओषधे) हे तापनाशक परमेश्वर ! (त्वम्) तू (अस्यै) इस [कन्या] के लिये [उस पति को] (धेहि) पुष्ट रख ॥८॥
भावार्थ - यह आशीर्वाद का मन्त्र है। पति और पत्नी उस सर्वनियन्ता परमेश्वर का सदा ध्यान करते हुए परस्पर हार्दिक प्रीति रखकर वेदोक्त मर्यादा पर चलें, जिससे वे दोनों प्रधान पुरुष और प्रधान स्त्री होकर संसार में कीर्त्तिमान् होवें और अन्न आदि ओषधि के समान सुखदायक होकर सदा हृष्ट-पुष्ट बने रहें ॥८॥ यजुर्वेद का वचन है–अ० ४० म० २। कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तं समाः॑ ॥ मनुष्य (इह) यहाँ (कर्माणि) वेदोक्त कर्मों को (कुर्वन्) करता हुआ (एव) ही (शतम्) सौ (समाः) वर्ष तक (जिजीविषेत्) जीवन की इच्छा करे ॥ इति षष्ठोऽनुवाकः ॥ इति चतुर्थः प्रपाठकः ॥ इति द्वितीयं काण्डम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगयकवाडा धिष्ठितबडोदेपुरीगतश्रावणमास-दक्षिणापरीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये द्वितीयं काण्डं समाप्तम्। इदं काण्डं प्रयागनगरे वैशाखमासे अक्षयायाम् [शुक्लतृतीयायाम्] १९७० तमे विक्रमीये संवत्सरे धीरवीरचिरप्रतापिमहायशस्विश्रीराजराजेश्वरजार्जपञ्चममहोदयस्य सुसाम्राज्ये सुसमाप्तिमगात् ॥
टिप्पणी -
८–आ। समन्तात्। अनुकूलम्। ते। तुभ्यम्। नयतु। णीञ् नयने। प्रेरयतु। नायकं करोतु। सविता। अ० १।१८।२। सर्वप्रेरकः। सर्वोत्पादकः परमेश्वरः। पतिः। म० ३। ऐश्वर्यवान्। भर्त्ता। प्रतिकाम्यः। म० ५। प्रतिज्ञया कमनीयः। अस्यै। वधूहितार्थम्। धेहि। डुधाञ् धारणपोषणयोः–लोट्। धारय। पोषय। वर्धय। ओषधे। अ० १।२३।१। हे तापभक्षक परमेश्वर ॥