अथर्ववेद - काण्ड 2/ सूक्त 6/ मन्त्र 3
त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने सं॒वर॑णे भवा नः। स॑पत्न॒हाग्ने॑ अभिमाति॒जिद्भ॑व॒ स्वे गये॑ जागृ॒ह्यप्र॑युछन् ॥
स्वर सहित पद पाठत्वाम् । अ॒ग्ने॒ । वृ॒ण॒ते॒ । ब्रा॒ह्म॒णा: । इ॒मे । शि॒व: । अ॒ग्ने॒ । स॒म्ऽवर॑णे । भ॒व॒ । न॒: । स॒प॒त्न॒ऽहा । अ॒ग्ने॒ । अ॒भि॒मा॒ति॒ऽजित् । भ॒व॒ । स्वे । गये॑ । जा॒गृ॒हि॒ । अप्र॑ऽयुच्छन् ॥६.३॥
स्वर रहित मन्त्र
त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः। सपत्नहाग्ने अभिमातिजिद्भव स्वे गये जागृह्यप्रयुछन् ॥
स्वर रहित पद पाठत्वाम् । अग्ने । वृणते । ब्राह्मणा: । इमे । शिव: । अग्ने । सम्ऽवरणे । भव । न: । सपत्नऽहा । अग्ने । अभिमातिऽजित् । भव । स्वे । गये । जागृहि । अप्रऽयुच्छन् ॥६.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 6; मन्त्र » 3
विषय - राजनीति से मनुष्य प्रतापी और तेजस्वी होवे।
पदार्थ -
(अग्ने) हे अग्निवत् तेजस्वी राजन् ! (इमे) ये (ब्राह्मणाः) वेदवेत्ता विद्वान् लोग (त्वा) तुझको (वृणते) चुनते हैं, (अग्ने) हे तेजस्वी राजन् ! (नः) हमारे (संवरणे) चुनाव में (शिवः) मङ्गलकारी (भव) हो। (अग्ने) हे तेजस्वी राजन् ! (सपत्नहा) वैरियों का नाश करनेवाला और (अभिमातिजित्) अभिमानियों का जीतनेवाला (भव) हो और (स्वे) अपने (गये) सन्तान पर वा धन पर वा घर अर्थात् अधिकार में (अप्रयुच्छन्) चूक न करता हुआ, (जागृहि) जागता रह ॥३॥
भावार्थ - वेदवेत्ता चतुर सभासद् ऐसे पुरुषार्थी विद्वान् को अपना राजा वा प्रधान बनावें कि जो सब दोषों और दुष्टों को मिटाकर अपने अधिकार को सावधान होकर चलावे, जिसमें सब राजा और प्रजा आनन्दयुक्त रहें ॥३॥ यजुर्वेद में (अग्ने अभिमातिजिद् भव) के स्थान में [नः अभिमातिजित् च] पाठ है ॥३॥
टिप्पणी -
३–वृणते। वृञ् संभक्तौ। संभजन्ते। स्वीकुर्वन्ति। ब्राह्मणाः। ब्रह्म वेदः परमेश्वरो वा। ब्रह्म जानातीति ब्राह्मणः। तदधीते तद्वेद। पा० ४।२।५९। इति ब्रह्म–अण्। वेदविदः। ब्रह्मज्ञानिनः। शिवः। सर्वनिघृष्वरिष्वलष्वशिव०। उ० १।१५३। इति शीङ् शयने, अथवा शिञ् छेदने–वन्। निपातनात् साधुः। शेरते शुभगुणा यत्र, यद्वा, शिनोति छिनत्ति दुःखानि यः। मङ्गलकारी। संवरणे। सहवरणे। सम्यक् स्वीकरणे। भवा। भव। द्व्यचोऽतस्तिङः। पा० ६।३।१३५। इति दीर्घः। सपत्नहा। अ० १।२९।५। शत्रुहन्ता। अभिमातिजित्। अभि+मा माने कर्तरि क्तिच्+जि क्विप्, तुक् च। अभिमानिनां जेता। गये। अघ्न्यादयश्च। उ० ४।११२। इति गम्लृ वा गाङ् गतौ, वा गा गाने–यक्। गच्छति पितृवंशं गीयते वा। गयः=अपत्यम्–निघ० २।२। धनम्–निघ० २।१०। गृहम्–निघ० ३।४। अपत्ये। धने। गृहे, पदे, अधिकारे। जागृहि। प्रबुद्धो भव। अप्रयुच्छन्। युच्छ प्रमादे–शतृ। अप्रमाद्यन्। सावधानो भवन् ॥