Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 118/ मन्त्र 3
इन्द्र॒मिद्दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्यध्व॒रे। इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ॥
स्वर सहित पद पाठइन्द्र॑म् । इत् । दे॒वऽता॑तये । इन्द्र॑म् । प्र॒ऽय॒ति । अ॒ध्व॒रे ॥ इन्द्र॑म् । स॒म्ऽई॒के । व॒निन॑: । ह॒वा॒म॒हे॒ । इन्द्र॑म् । धन॑स्य । सा॒तये॑ ॥११८.३॥
स्वर रहित मन्त्र
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे। इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥
स्वर रहित पद पाठइन्द्रम् । इत् । देवऽतातये । इन्द्रम् । प्रऽयति । अध्वरे ॥ इन्द्रम् । सम्ऽईके । वनिन: । हवामहे । इन्द्रम् । धनस्य । सातये ॥११८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 118; मन्त्र » 3
विषय - परमेश्वर की उपासना का उपदेश।
पदार्थ -
(इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] को (इत्) ही (देवतातये) दिव्य गुण फैलाने के लिये, (इन्द्रम्) इन्द्र [परमात्मा] को (प्रयति) प्रयत्नसाध्य (अध्वरे) बिना हिंसावाले व्यवहार में, (इन्द्रम्) इन्द्र [परमात्मा] को (समीके) युद्ध में, और (इन्द्रम्) इन्द्र [परमात्मा] को (धनस्य) धन के (सातये) मिलने के लिये, (वनिनः) शब्द करते हुए हम (हवामहे) पुकारते हैं ॥३॥
भावार्थ - मनुष्य अपने सब काम परमेश्वर को समर्पण करके पुरुषार्थ के साथ आनन्द पावे ॥३॥
टिप्पणी -
मन्त्र ३, ४ ऋग्वेद में हैं-८।३।, ६; सामवेद उ० ७।३।८; म० ३ सा० पू० ३।६।७ ॥ ३−(इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (इत्) एव (देवतातये) दिव्यगुणानां विस्ताराय (इन्द्रम्) परमात्मानम् (प्रयति) अ० ७।९७।१। प्रयत्नसाध्ये (अध्वरे) हिंसारहिते व्यवहारे (इन्द्रम्) (समीके) अथ० २०।८९।४। संग्रामे (वनिनः) वन शब्दे-अच्, इति। शब्दवन्तः (हवामहे) आह्वयामहे (इन्द्रम्) (धनस्य) (सातये) लाभाय ॥