Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 118/ मन्त्र 4
इन्द्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्रः॒ सूर्य॑मरोचयत्। इन्द्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे॑ सुवा॒नास॒ इन्द॑वः ॥
स्वर सहित पद पाठइन्द्र॑: । म॒ह्ना । रोद॑सी॒ इति॑ । प॒प्र॒थ॒त् । शव॑: । इन्द्र॑: । सूर्य॑म् । अ॒रो॒च॒य॒त् ॥ इन्द्रे॑ । ह॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒र॒ । इन्द्रे॑ । सु॒वा॒नास॑: । इन्द॑व: ॥११८.४॥
स्वर रहित मन्त्र
इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत्। इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥
स्वर रहित पद पाठइन्द्र: । मह्ना । रोदसी इति । पप्रथत् । शव: । इन्द्र: । सूर्यम् । अरोचयत् ॥ इन्द्रे । ह । विश्वा । भुवनानि । येमिर । इन्द्रे । सुवानास: । इन्दव: ॥११८.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 118; मन्त्र » 4
विषय - परमेश्वर की उपासना का उपदेश।
पदार्थ -
(इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] ने (शवः) बल की (मह्ना) महिमा से (रोदसी) आकाश और भूमि को (पप्रथत्) फैलाया है, (इन्द्रः) इन्द्र [परमात्मा] ने (सूर्यम्) सूर्य को (अरोचयत्) चमकाया है। (इन्द्रे) इन्द्र [परमात्मा] में (ह) ही (विश्वा) सब (भुवनानि) भुवन (येमिरे) ठहरे हैं, (इन्द्रे) इन्द्र [परमात्मा] में (सुवानासः) उत्पन्न होते हुए (इन्दवः) ऐश्वर्य हैं ॥४॥
भावार्थ - जिस परमात्मा ने ब्रह्माण्ड के भीतर सब ऐश्वर्यवान् पदार्थ रचे हैं, मनुष्य उसकी भक्ति से सब पदार्थों से उपकार लेकर उन्नति करें ॥४॥
टिप्पणी -
४−(इन्द्रः) परमेश्वर्यवान् परमात्मा (मह्ना) महिम्ना। महत्त्वेन (रोदसी) आकाशभूमी (पप्रथत्) विस्तारितवान् (शवः) विभक्तेः सुः। शवसः। बलस्य (इन्द्रः) (सूर्यम्) प्रसिद्धम् (अरोचयत्) अदीपयत् (इन्द्रे) परमात्मनि (ह) एव (विश्वा) व्याप्तानि। सर्वाणि (भुवनानि) लोकजातानि (येमिरे) यम उपरमे-लिट्। नियमिताः स्थापिता बभूवुः (इन्द्रे) (सुवानासः) सूयमानाः। उत्पद्यमानाः (इन्दवः) ऐश्वर्याणि ॥