अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 7
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
राज्ञो॑ विश्व॒जनी॑नस्य॒ यो दे॒वोऽमर्त्याँ॒ अति॑। वै॑श्वान॒रस्य॒ सुष्टु॑ति॒मा सु॒नोता॑ परि॒क्षितः॑ ॥
स्वर सहित पद पाठराज्ञ॑: । विश्व॒जनी॑नस्य । य: । दे॒व: । मर्त्या॒न् । अति॑ ॥ वै॒श्वा॒न॒रस्य॒ । सुष्टु॑ति॒म् । आ । सु॒नोत । परि॒क्षित॑: ॥१२७.७॥
स्वर रहित मन्त्र
राज्ञो विश्वजनीनस्य यो देवोऽमर्त्याँ अति। वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः ॥
स्वर रहित पद पाठराज्ञ: । विश्वजनीनस्य । य: । देव: । मर्त्यान् । अति ॥ वैश्वानरस्य । सुष्टुतिम् । आ । सुनोत । परिक्षित: ॥१२७.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 7
विषय - राजा के धर्म का उपदेश।
पदार्थ -
(यः) जो (देवः) देव [विजय चाहनेवाला पुरुष] (मर्त्यान् अति) मनुष्यों में बढ़कर [गुणी है], (विश्वजनीनस्य) सब लोगों के हितकारी, (वैश्वानरस्य) सबके नेता, (परिक्षितः) सब प्रकार ऐश्वर्यवाले (राज्ञः) उस राजा की (सुष्टुतिम्) उत्तम स्तुति को (आ) भले प्रकार (सुनोत) मथो ॥७॥
भावार्थ - सर्वहितकारी पुरुष से सब मनुष्य उत्तम गुणों का ग्रहण करें ॥७॥
टिप्पणी -
७−(राज्ञः) तस्य शासकस्य (विश्वजनीनस्य) आत्मन्विश्वजनभोगोत्तरपदात् खः। पा० ।१।९। विश्वजन-खप्रत्ययः। सर्वजनेभ्यो हितस्य (यः) (देवः) विजिगीषुः (मर्त्यान्) मनुष्यान् (अति) अतीत्य। उल्लङ्घ्य श्रेष्ठगुणैः-वर्तते (वैश्वानरस्य) सर्वनायकस्य (सुष्टुतिम्) कल्याणीं स्तुतिम् (आ) समन्तात् (सुनीत) मथध्वम् (परिक्षितः) क्षि ऐश्वर्ये-क्विप्। तुक्। सर्वत ऐश्वर्ययुक्तस्य ॥