अथर्ववेद - काण्ड 20/ सूक्त 140/ मन्त्र 5
यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑। पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम् ॥
स्वर सहित पद पाठयत् । वा॒म् । क॒क्षीवा॑न् । उ॒त । यत् । वि॒ऽअ॑श्व: । ऋषि॑: । यत् । वा॒म् । दी॒र्घऽत॑मा:। जु॒हाव॑ ॥ पृथी॑ । यत् । वा॒म् । वै॒न्य: । सद॑नेषु । ए॒व । इत् । अत॑: । अ॒श्वि॒ना॒ । चे॒त॒ये॒था॒म् ॥१४०.५॥
स्वर रहित मन्त्र
यद्वां कक्षीवाँ उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव। पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥
स्वर रहित पद पाठयत् । वाम् । कक्षीवान् । उत । यत् । विऽअश्व: । ऋषि: । यत् । वाम् । दीर्घऽतमा:। जुहाव ॥ पृथी । यत् । वाम् । वैन्य: । सदनेषु । एव । इत् । अत: । अश्विना । चेतयेथाम् ॥१४०.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 140; मन्त्र » 5
विषय - दिन और रात्रि के उत्तम प्रयोग का उपदेश।
पदार्थ -
(यत्) जैसे (वाम्) तुम दोनों को (कक्षीवान्) गतिवाले [वा शासनवाले] पुरुष ने, (उत) और (यत्) जैसे (व्यश्वः) विविध वेगवाले ने और (यत्) जैसे (वाम्) तुम दोनों को (दीर्घतमाः) दीर्घतमा [लंबा हो गया है, चला गया है अन्धकार जिससे ऐसे] (ऋषिः) ऋषि [विज्ञानी] ने, (यत्) जैसे (वाम्) तुम दोनों को (वैन्यः) बुद्धिमानों के पास रहनेवाले (पृथी) विस्तारवाले पुरुष ने (सदनेषु) अपने स्थानों में (जुहाव) ग्रहण किया है, (अश्विना) हे दोनों अश्वी ! [व्यापक दिन-राति] (एव इत्) वैसे ही (अतः) इस [मेरे वचन] को (चेतयेथाम्) जानो ॥॥
भावार्थ - जैसे-जैसे मनुष्य दिन-राति का सुप्रयोग करते हैं, वैसे ही दिन-राति उनको सुख देते हैं ॥॥
टिप्पणी -
−(यत्) यथा (वाम्) युवाम् (कक्षीवान्) अथ० ४।२९।। कश गतिशासनयोः-क्सि, मतुप्, मस्य वः, दीर्घश्च। गतिशीलः शासनशीलो वा (उत) अपि च (यत्) यथा (व्यश्वः) वि+अशू व्याप्तौ-क्वन्। विविधवेगयुक्तः (ऋषिः) विज्ञानी (यत्) (वाम्) (दीर्घतमाः) दॄ विदारणे-घञ्+तमु काङ्क्षायां खेदे च-असुन् दीर्घं विदीर्णं दूरीभूतं तमः अन्धकारो यस्मात् स विद्वान् (जुहाव) हु आदाने-लिट्। गृहीतवान्। स्वीकृतवान् (पृथी) अ० ८।१०(४)।११। प्रथ विस्तारे-घञर्थे कप्रत्ययः सम्प्रसारणं च, मत्वर्थे इनि। विस्तारवान् (यत्) (वाम्) (वैन्यः) अथ० ८।१०(४)।११। वेनो मेधावी-निघ० २।१। अदूरभवश्च। पा० ४।२।७०। इति ण्य। मेधाविनां समीपस्थः (सदनेषु) संहितायां दीर्घः। स्थानेषु (एव) एवम्। तथा (इत्) अवश्यम् (अतः) इदम्-द्वितीयार्थे तसिः। इदं वचनम् (अश्विना) म० २। हे व्यापकौ। अहोरात्रौ (चेतयेथाम्) जानीतम् ॥