अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 5
सूक्त - पुरमीढाजमीढौ
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त १४३
आ नो॑ यातं दि॒वो अच्छा॑ पृथि॒व्या हि॑र॒ण्यये॑न सु॒वृता॒ रथे॑न। मा वा॑म॒न्ये नि य॑मन्देव॒यन्तः॒ सं यद्द॒दे नाभिः॑ पू॒र्व्या वा॑म् ॥
स्वर सहित पद पाठआ । न॒: । या॒त॒म् । दि॒व: । अच्छ॑ । पृ॒थि॒व्या: । हि॒र॒ण्यये॑न । सु॒ऽवृता॑ । रथे॑न ॥ मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒यन्त॑: । सम् । यत् । द॒दे । नाभि॑: । पू॒र्व्या । वा॒म् ॥१४३.५॥
स्वर रहित मन्त्र
आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन। मा वामन्ये नि यमन्देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥
स्वर रहित पद पाठआ । न: । यातम् । दिव: । अच्छ । पृथिव्या: । हिरण्ययेन । सुऽवृता । रथेन ॥ मा । वाम् । अन्ये । नि । यमन् । देवयन्त: । सम् । यत् । ददे । नाभि: । पूर्व्या । वाम् ॥१४३.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 5
विषय - १-७; ९ राजा और मन्त्री के कर्तव्य का उपदेश।
पदार्थ -
[हे राजा और मन्त्री !] (दिवः) आकाश से और (पृथिव्याः) भूमि से (हिरण्ययेन) ज्योति रखनेवाले [अग्नि आदि प्रकाशबल से चलनेवाले], (सुवृता) शीघ्र घूमनेवाले [चलनेवाले] (रथेन) रमणीय रथ [विमान आदि वाहन] द्वारा (अच्छ) अच्छे प्रकार (नः) हमको (आ यातम्) दोनों प्राप्त होओ, (अन्ये) अन्य (देवयन्तः) पीड़ा देते हुए लोग (वाम्) तुम दोनों को (मा नि यमन्) न रोकें, (यत्) क्योंकि (पूर्व्या) पुरानी (नाभिः) बन्धुता ने (वाम्) तुम दोनों को (संददे) बाँधा है ॥॥
भावार्थ - राजा और मन्त्री आकाश और पृथिवी पर चलनेवाले यान-विमानों द्वारा शत्रुओं से बे-रोक होकर प्रजा की रक्षा करें ॥॥
टिप्पणी -
−(आ) (नः) अस्मान् (यातम्) प्राप्नुतम् (दिवः) आकाशात् (अच्छ) सांहितिको दीर्घः। सम्यक् (पृथिव्याः) भूमेः सकाशात् (हिरण्ययेन) म० ४। (सुवृता) सुवर्तशीलेन। शीघ्रगामिना (रथेन) विमानादियानेन (वाम्) युवाम् (अन्ये) इतरे (मा नि यमन्) न निगृहन्तु (देवयन्तः) दिव अर्दने=पीडने चुरादिः-शतृ। पीडयन्तो जनाः (यत्) यतः (सं ददे) ददातेर्लिट्। सन्दानं बन्धनम्, बन्धे कृतवती (नाभिः) नहो भश्च। उ० ४।१२६। णह बन्धने-इञ्, हस्य भः। बन्धनम् (पूर्व्यः) पूर्व्यं पुराणनाम-निघ० ३।२७। प्राचीना (वाम्) युवाम् ॥