अथर्ववेद - काण्ड 20/ सूक्त 18/ मन्त्र 2
सूक्त - मेधातिथिः, प्रियमेधः
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-१८
न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ। तवेदु॒ स्तोमं॑ चिकेत ॥
स्वर सहित पद पाठन । घ॒ । ई॒म् । अ॒न्यत् । आ । प॒प॒न॒ । वज्रि॑न् । अ॒पस॑: । नवि॑ष्टौ ॥ तव॑ । इत् । ऊं॒ इति॑ । स्तोम॑म् । चि॒के॒त॒ ॥१८.२॥
स्वर रहित मन्त्र
न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ। तवेदु स्तोमं चिकेत ॥
स्वर रहित पद पाठन । घ । ईम् । अन्यत् । आ । पपन । वज्रिन् । अपस: । नविष्टौ ॥ तव । इत् । ऊं इति । स्तोमम् । चिकेत ॥१८.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 18; मन्त्र » 2
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(वज्रिन्) हे वज्रधारी राजन् ! (नविष्टौ) स्तुति की इच्छा में (अपसः) [तेरे] कर्म से (अन्वत्) दूसरे [कर्म] को (न घ ईम्) कभी भी नहीं (आ पपन) मैंने सराहा है। (तव इत् उ) तेरे ही (स्तोमम्) स्तुतियोग्य व्यवहार को (चिकेत) मैंने जाना है ॥२॥
भावार्थ - प्रजागण स्तुतियोग्य उपकारी कामों में प्रतापी धर्मात्मा राजा से सहायता लेते रहें ॥२॥
टिप्पणी -
२−(न) निषेधे (घ) अवश्यम् (ईम्) एव (अन्यत्) भिन्नम् (आ) समन्तात् (पपन) पन स्तुतौ-णलि लिटि रूपम्। स्तुतवानस्मि (वज्रिन्) हे वज्रधारिन् (अपसः) कर्मणः सकाशात् (नविष्टौ) णु स्तुतौ-अप्+इष इच्छायाम्-क्तिन्। शकन्ध्वादित्वात् पररूपम्। नवस्य स्तुतेः इष्टौ इच्छायाम् (तव) (इत्) एव (उ) अवधारणे (स्तोमम्) स्तुत्यं व्यवहारम् (चिकेत) कित ज्ञाने-लिट्। अहं ज्ञातवानस्मि ॥