अथर्ववेद - काण्ड 20/ सूक्त 31/ मन्त्र 2
अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा। अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ॥
स्वर सहित पद पाठअर॑म् । कामा॑य । हर॑य: । द॒ध॒न्वि॒रे॒ । स्थि॒राय॑ । हि॒न्व॒न् । हर॑य: । हरी॒ इति॑ । तु॒रा ॥ अर्व॑त्ऽभि: । य: । हरिऽभि: । जोष॑म् । ईय॑ते । स: । अ॒स्य॒ । काम॑म् । हरि॑ऽवन्तम् । आ॒न॒शे॒ ॥३१.२॥
स्वर रहित मन्त्र
अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन्हरयो हरी तुरा। अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥
स्वर रहित पद पाठअरम् । कामाय । हरय: । दधन्विरे । स्थिराय । हिन्वन् । हरय: । हरी इति । तुरा ॥ अर्वत्ऽभि: । य: । हरिऽभि: । जोषम् । ईयते । स: । अस्य । कामम् । हरिऽवन्तम् । आनशे ॥३१.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 31; मन्त्र » 2
विषय - पुरुषार्थ करने का उपदेश।
पदार्थ -
(हरयः) सिंह [समान बलवान्] (हरयः) दुःख हरनेवाले मनुष्यों ने (कामाय) कामना पूरी करने के लिये (तुरा) शीघ्रकारी (हरी) दुःख हरनेवाले दोनों बल और पराक्रम को (स्थिराय) दृढ़ स्वभाववाले [सेनापति] के निमित्त (अरम्) पूरा-पूरा (दधन्विरे) प्राप्त किया और (हिन्वन्) बढ़ाया है। (यः) जो मनुष्य (अर्वद्भिः) घोड़ों [के समान शीघ्रगामी] (हरिभिः) दुःख हरनेवाले मनुष्यों के साथ (जोषम्) प्रीति (ईयते) प्राप्त करता है, (सः) उसने ही (हरिवन्तम्) श्रेष्ठ मनुष्योंवाली (अस्य) अपनी (कामम्) कामना को (आनशे) फैलाया है ॥२॥
भावार्थ - जहाँ पर विद्वान् लोग राजा के लिये बल और पराक्रम करते हैं और राजा विद्वानों से प्रीति करता है, वहाँ सब उत्तम कामनाएँ पूरी होकर आनन्द बढ़ता है ॥२॥
टिप्पणी -
२−(अरम्) अलम्। पर्याप्तम् (कामाय) कामनां पूरयितुम् (हरयः) सिंहसमाना बलवन्तः (दधन्विरे) म०१। प्राप्तवन्तः (स्थिराय) दृढाय सेनापतये (हिन्वन्) हि गतिवृद्ध्योः-लङ्। वर्द्धितवन्तः (हरयः) दुःखहर्तारो मनुष्याः (हरी) दुःखहर्तारौ बलपराक्रमौ (तुरा) वेगे-क। वेगवन्तौ (अर्वद्भिः) अरणवद्भिः अश्वतुल्यैर्वेगवद्भिः (यः) (हरिभिः) दुःखहर्तृभिर्मनुष्यैः सह (जोषम्) प्रीतिम् (ईयते) गच्छति। प्राप्नोति (सः) सेनापतिः (अस्य) स्वकीयस्य (कामम्) अभिलाषाम् (हरिवन्तम्) श्रेष्ठपुरुषैर्युक्तम् (आनशे) अशू व्याप्तौ-लिट्। व्याप्तवान्। विस्तारितवान् ॥