Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 46/ मन्त्र 3
स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑। अछा॑ च नः सु॒म्नं ने॑षि ॥
स्वर सहित पद पाठस: । त्वम् । न॒: । इ॒न्द्र॒ । वाजे॑भि: । द॒श॒स्य । च॒ । गा॒तु॒ऽया । च॒ ॥ अच्छ॑ । च॒ । न॒: । सु॒म्नम् । ने॒षि॒ ॥४६.३॥
स्वर रहित मन्त्र
स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च। अछा च नः सुम्नं नेषि ॥
स्वर रहित पद पाठस: । त्वम् । न: । इन्द्र । वाजेभि: । दशस्य । च । गातुऽया । च ॥ अच्छ । च । न: । सुम्नम् । नेषि ॥४६.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 46; मन्त्र » 3
विषय - सेनापति के लक्षण का उपदेश।
पदार्थ -
(सः त्वम्) सो तू, (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले सेनापति] (नः) हमारे लिये (वाजेभिः) पराक्रमों के साथ (दशस्य) कवच के समान काम कर, (च च) और (गातुया) मार्ग बता, (च) और (अच्छ) अच्छे प्रकार (नः) हमें (सुम्नम्) सुख की ओर (नेषि) ले चल ॥३॥
भावार्थ - राजा पराक्रम करके प्रजा को अनेक प्रकार से सुख पाने के ढंग बतावे ॥३॥
टिप्पणी -
३−(सः) तादृशः (त्वम्) (नः) अस्मभ्यम् (इन्द्रः) सेनापते (वाजेभिः) सङ्ग्रामैः (दशस्य) अ० २०।३।११। दशः कवच इवाचर (च) (गातुया) छन्दसि परेच्छायामपि। वा० पा० ३।१।८। गातु-क्यच्। छान्दसो दीर्घः, ऋग्वेदे [गातुय] इति पदपाठः। मार्गम् इच्छ (च) (अच्छ) सुष्ठु (च) (नः) अस्मान् (सुम्नम्) सुखं प्रति (नेषि) शपो लुक्। नयसि। नय। प्रापय ॥