अथर्ववेद - काण्ड 20/ सूक्त 5/ मन्त्र 2
तु॑वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ सदे॑। इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥
स्वर सहित पद पाठतु॒वि॒ऽग्रीव॑: । व॒पाऽउ॑दर: । सु॒ऽबा॒हु:। अन्ध॑स: । मदे॑ । इन्द्र॑: । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥५.२॥
स्वर रहित मन्त्र
तुविग्रीवो वपोदरः सुबाहुरन्धसो सदे। इन्द्रो वृत्राणि जिघ्नते ॥
स्वर रहित पद पाठतुविऽग्रीव: । वपाऽउदर: । सुऽबाहु:। अन्धस: । मदे । इन्द्र: । वृत्राणि । जिघ्नते ॥५.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 5; मन्त्र » 2
विषय - सोम रस के सेवन का उपदेश।
पदार्थ -
(तुविग्रीवः) दृढ़ गलेवाला, (वपोदरः) चर्बी से युक्त पेटवाला, (सुबाहुः) बलवान् भुजाओंवाला (इन्द्रः) इन्द्र [परम ऐश्वर्यवाला पुरुष] (अन्धसः) अन्न रस के (मदे) आनन्द में (वृत्राणि) वैरियों को (जिघ्नते) मारे ॥२॥
भावार्थ - मनुष्य उत्तम ओषधियों के यथावत् सेवन से पुष्ट और बलवान् होकर शत्रुओं का नाश करे ॥२॥
टिप्पणी -
२−(तुविग्रीवः) दृढकण्ठः (वपोदरः) वपा वसा मेद उदरे यस्य सः (सुबाहुः) प्रभूतबलभुजः (अन्धसः) अन्नरसस्य (मदे) हर्षे (इन्द्रः) परमैश्वर्यवान् पुरुषः (वृत्राणि) शत्रून् (जिघ्नते) हन्तेर्लेट्। लेटोऽडाटौ। पा० ३।४।९४। अडागमः, शपः श्लुः। बहुलं छन्दसि। पा० ७।४।७८। अभ्यासस्य इत्त्वम्। हन्यात्। मारयेत् ॥