अथर्ववेद - काण्ड 20/ सूक्त 5/ मन्त्र 7
यस्ते॑ शृङ्गवृषो नपा॒त्प्रण॑पात्कुण्ड॒पाय्यः॑। न्यस्मिन्दध्र॒ आ मनः॑ ॥
स्वर सहित पद पाठय: । ते॒ । शृ॒ङ्ग॒ऽवृ॒ष॒: । न॒पा॒त् । प्रन॑पा॒दिति॒ प्रऽन॑पात् । कु॒ण्ड॒ऽपाय्य॑: ॥ नि । अ॒स्मि॒न् । द॒ध्रे॒ । आ । मन॑: ॥५.७॥
स्वर रहित मन्त्र
यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः। न्यस्मिन्दध्र आ मनः ॥
स्वर रहित पद पाठय: । ते । शृङ्गऽवृष: । नपात् । प्रनपादिति प्रऽनपात् । कुण्डऽपाय्य: ॥ नि । अस्मिन् । दध्रे । आ । मन: ॥५.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 5; मन्त्र » 7
विषय - सोम रस के सेवन का उपदेश।
पदार्थ -
(शृङ्गवृषः) हे तेज की वृष्टि करनेवाले [शूर पुरुष] के (नपात्) न गिरानेवाले [राजन् !] (ते) तेरा (यः) जो (प्रणपात्) अतिशय करके न गिरानेवाला (कुण्डपाय्यः) रक्षा करनेवाले [सोमरस] पीने का व्यवहार है। (अस्मिन्) उसमें (मनः) मन को (नि) निरन्तर (आ दध्रे) मैं धारण करता हूँ ॥७॥
भावार्थ - जो राजा शूर वीर लोगों का उत्साह देनेवाला और सोमयज्ञ करके अन्न आदि से प्रजा की रक्षा करे, विद्वान् जन उस राजा के उत्तम कामों से प्रसन्न होवें ॥७॥
टिप्पणी -
७−(यः) (ते) तव (शृङ्गवृषः) शृणातेर्ह्रस्वश्च। उ० १।१२६। शॄ हिंसायाम्-गन्, नुडागमः+वृषु सेचने-क्विप्। शृङ्गाणि ज्वलतो नाम-निघ० १।१७। शृङ्गस्य तेजसो वर्षकस्य शूरस्य (नपात्) हे न पातयितः। रक्षक (शृङ्गवृषो नपात्) सुबामन्त्रिते पराङ्गवत् स्वरे। पा० २।१।२। इति षष्ठ्यन्तस्य शृङ्गवृट्शब्दस्य पराङ्गवद् भावेनामन्त्रितानुप्रवेशात् समुदायस्याष्टमिकं सर्वानुदात्तत्वम् (प्रणपात्) प्रकर्षेण न पातयिता रक्षिता (कुण्डपाय्यः) कुडि रक्षणे-अच्। क्रतौ कुण्डपाय्यसंचाय्यौ। पा० ३।१।१३०। कुण्ड+पा पाने-यत्, युगागमः। कुण्डो रक्षकः सोमः पातव्यो यस्मिन् स व्यवहारः। क्रतुः कर्मनाम-निघ० २।१ (नि) नितराम् (अस्मिन्) कुण्डपाय्ये व्यवहारे (आ दध्रे) बहुलं छन्दसि। पा० ७।१।८। इति रुडागमः। अहमादधे। समन्ताद् दधामि धारयामि ॥