अथर्ववेद - काण्ड 20/ सूक्त 56/ मन्त्र 6
ए॒ते त॑ इन्द्र ज॒न्तवो॑ विश्वं पुष्यन्ति॒ वार्य॑म्। अ॒न्तर्हि ख्यो जना॑नाम॒र्यो वेदो॒ अदा॑शुषां॒ तेषां॑ नो॒ वेद॒ आ भ॑र ॥
स्वर सहित पद पाठए॒ते । ते॒ । इ॒न्द्र॒: । ज॒न्तव॑: । विश्व॑म् । पु॒ष्य॒ति॒ । वार्य॑म् ॥ अ॒न्त: । हि । ख्य: । जना॑नाम् । अ॒र्य: । वेद॑: । अदा॑शुषाम् । तेषा॑म् । न॒: । वेद॑: । आ । भ॒र॒ ।५६.६॥
स्वर रहित मन्त्र
एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम्। अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥
स्वर रहित पद पाठएते । ते । इन्द्र: । जन्तव: । विश्वम् । पुष्यति । वार्यम् ॥ अन्त: । हि । ख्य: । जनानाम् । अर्य: । वेद: । अदाशुषाम् । तेषाम् । न: । वेद: । आ । भर ।५६.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 56; मन्त्र » 6
विषय - सभापति के लक्षण का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (ते) तेरे लिये (एते) यह (जन्तवः) लोग (विश्वम्) सब (वार्यम्) स्वीकार योग्य पदार्थ को (पुष्यन्ति) पुष्ट करते हैं। (अर्यः) स्वामी तू (तेषाम्) उन (जनानाम्) मनुष्यों के (अन्तः) बीच (हि) निश्चय करके (अदाशुषाम्) अदानी लोगों की (वेदः) समझ को (ख्यः) देख और (नः) हमारे लिये (वेदः) विज्ञान को (आ) सब प्रकार (भर) प्राप्त करा ॥६॥
भावार्थ - जैसे प्रजागण श्रेष्ठ पदार्थों के दान से राजभक्ति करें, वैसे ही राजा अदाताओं से प्रजा की रक्षा करके विज्ञान की वृद्धि करे ॥६॥
टिप्पणी -
६−(एते) उपस्थिताः (ते) तुभ्यम् (इन्द्र) हे परमैश्वर्यवन् राजन् (जन्तवः) जीवाः जनाः (विश्वम्) सर्वम् (पुष्यन्ति) वर्धयन्ति (वार्यम्) स्वीकार्यं पदार्थम् (अन्तः) मध्ये (हि) अवश्यम् (ख्यः) ख्या प्रकथने दर्शने च लोडर्थे लुङ्। पश्य (जनानाम्) जन्तूनाम्। जीवानाम् (अर्यः) स्वामी (वेदः) बोधम् (अदाशुषाम्) अदातॄणाम् (तेषाम्) पूर्वोक्तानां जन्तूनाम् (नः) अस्मभ्यम् (वेदः) विज्ञानम् (आ) समन्तात् (भर) प्रापय ॥