अथर्ववेद - काण्ड 20/ सूक्त 88/ मन्त्र 3
बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ ते॑ ऋत॒स्पृशो॒ नि षे॑दुः। तुभ्यं॑ खा॒ता अ॑व॒ता अद्रि॑दुग्धा॒ मध्व॑ श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥
स्वर सहित पद पाठबृह॑स्पते । या । प॒र॒मा । प॒रा॒ऽवत् । अत॑: । आ । ते॒ । ऋ॒त॒ऽस्पृश॑: । नि । से॒दु॒: ॥ तुभ्य॑म् । खा॒ता: । अ॒व॒ता: । अद्रि॑ऽदुग्धा: । मध्व॑: । श्चो॒त॒न्ति॒ । अ॒भित॑: । वि॒ऽर॒प्शम् ॥८८.३॥
स्वर रहित मन्त्र
बृहस्पते या परमा परावदत आ ते ऋतस्पृशो नि षेदुः। तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम् ॥
स्वर रहित पद पाठबृहस्पते । या । परमा । पराऽवत् । अत: । आ । ते । ऋतऽस्पृश: । नि । सेदु: ॥ तुभ्यम् । खाता: । अवता: । अद्रिऽदुग्धा: । मध्व: । श्चोतन्ति । अभित: । विऽरप्शम् ॥८८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 88; मन्त्र » 3
विषय - विद्वानों के कर्तव्य का उपदेश।
पदार्थ -
(बृहस्पते) हे बृहस्पति ! [बड़ी विद्याओं के रक्षक] (या) जो (ते) तेरी (परमा) उत्तम नीति (परावत्) उत्तम विद्यावाले राज्य में है, [उस नीति में] (ऋतस्पृशः) सत्य का स्पर्श करनेवाले लोग (आ) सब ओर से (नि षेदुः) बैठे हैं, (अतः) इसलिये (अद्रिदुग्धाः) मेघ से भरे गये, (खाताः) खोदे गये, (मध्वः) मीठे [मीठे जलवाले] (अवताः) कुए (तुभ्यम्) तेरे लिये (विरप्शम्) महान् संसार को (अभितः) सब ओर से (श्चोतन्ति) सींचते हैं ॥३॥
भावार्थ - चतुर राजा की सुन्दर नीति से विद्वान् लोग संसार को इस प्रकार आनन्द पहुँचाते हैं, जैसे मेघ के जल कूप आदि द्वारा उपकार करते हैं ॥३॥
टिप्पणी -
३−(बृहस्पते) बृहतीनां विद्यानां रक्षक (या) (परमा) उत्कृष्टा नीतिः (परावत्) परावति। उत्कृष्टविद्यायुक्ते राज्ये (अतः) अस्मात् कारणात् (आ) समन्तात् (ते) तव (ऋतस्पृशः) सत्यस्य स्पर्शनशीलाः पुरुषाः (नि षेदुः) निषण्णा भवन्ति (तुभ्यम्) (खाताः) निखाताः (अवताः) भृमृदृशियजि०। उ० ३।११०। अव गतिरक्षणादिषु-अतच्। कूपाः-निघ० ३।२३। (अद्रिदुग्धाः) मेघेन पूरिताः (मध्वः) मधवः। मधुरजलयुक्ताः (श्चोतन्ति) सिञ्चन्ति (अभितः) सर्वतः (विरप्शम्) महान्तं संसारम् ॥