Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 9/ मन्त्र 2
द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम्। क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥
स्वर सहित पद पाठद्यु॒क्षम् । सु॒ऽदानु॑म् । तवि॑षीभि: । आऽवृ॑तम् । गि॒रिम् । न । पु॒रु॒ऽभोज॑सम् ॥ क्षु॒ऽमन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥९.२॥
स्वर रहित मन्त्र
द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम्। क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥
स्वर रहित पद पाठद्युक्षम् । सुऽदानुम् । तविषीभि: । आऽवृतम् । गिरिम् । न । पुरुऽभोजसम् ॥ क्षुऽमन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षु । गोऽमन्तम् । ईमहे ॥९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 9; मन्त्र » 2
विषय - ईश्वर की उपासना का उपदेश।
पदार्थ -
(द्युक्षम्) व्यवहारों में गतिवाले, (सुदानुम्) बड़े दानी, (तविषीभिः) सेनाओं से (आवृतम्) भरपूर (गिरिम् न) मेघ के समान (पुरुभोजसम्) बहुत पालन करनेवाले, (क्षुमन्तम्) अन्नवाले, (वाजम्) बलवाले, (शतिनम्) सैकड़ों उत्तम पदार्थोंवाले (सहस्रिणम्) सहस्रों श्रेष्ठ, गुणवाले, (गोमन्तम्) उत्तम गौओंवाले [शूर पुरुष] को (मक्षू) शीघ्र [इन्द्र परमात्मा से] (ईमहे) हम माँगते हैं ॥२॥
भावार्थ - मनुष्य परमात्मा से प्रार्थना करके प्रयत्न करें कि वे अपने सन्तानों, अधिकारियों और प्रजाजनों सहित शूरवीर होकर व्यवहारकुशल होवें ॥२॥
टिप्पणी -
२−(द्युक्षम्) दिवु व्यवहारे-डिवि+क्षि निवासगत्योः-डप्रत्ययः। द्युषु व्यवहारेषु गन्तारम् (सुदानुम्) महादानिनम् (तविषीभिः) तु वृद्धौ पूर्तौ च-टिषन्, ङीप्। तविषी बलनाम-निघ० २।९। बलैः। सेनाभिः (आवृतम्) आच्छादितम्। प्रपूर्णम् (गिरिम्) गिरिर्मेघनाम-निघ० १।१०। मेघम् (न) इव (पुरुभोजसम्) बहुपालकम् (क्षुमन्तम्) आङ्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। टुक्षु शब्दे, क्षि निवासगत्योः, ऐश्वर्ये च-कुप्रत्ययः स च डित्। क्षु अन्ननाम-निघ० २।७। अन्नवन्तम् (वाजम्) अर्शआद्यच्। वाजवन्तम्। बलवन्तम् (शतिनम्) असंख्यश्रेष्ठपदार्थयुक्तम् (सहस्रिणम्) तपःसहस्राभ्यां विनीनी। पा० ।२।१०२। सहस्र-इनि। असंख्यश्रेष्ठगुणोपेतम् (मक्षु) शीघ्रम् (गोमन्तम्) प्रशस्तगोभिर्युक्तम् (ईमहे) याचामहे-निघ० ३।१९ ॥