अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 8
ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा इ॑या॒नास॑ इषणयन्त धी॒भिः। बृह॒स्पति॑र्मिथोअवद्यपेभि॒रुदु॒स्रिया॑ असृजत स्व॒युग्भिः॑ ॥
स्वर सहित पद पाठते । स॒त्येन । धी॒भि: ॥ मनसा । गोऽपतिम् । गा: । इ॒या॒नास: । इ॒ष॒ण॒य॒न्त॒ । धी॒भि: ॥ बृह॒स्पति॑: । मि॒थ:ऽअवद्यपेभि: । उत् । उ॒स्रिया॑: । अ॒सृ॒ज॒त॒ । स्व॒युक्ऽभि॑: ॥९१.८॥
स्वर रहित मन्त्र
ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः। बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥
स्वर रहित पद पाठते । सत्येन । धीभि: ॥ मनसा । गोऽपतिम् । गा: । इयानास: । इषणयन्त । धीभि: ॥ बृहस्पति: । मिथ:ऽअवद्यपेभि: । उत् । उस्रिया: । असृजत । स्वयुक्ऽभि: ॥९१.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 8
विषय - परमात्मा के गुणों का उपदेश।
पदार्थ -
(सत्येन) सच्चे (मनसा) मन से (धीभिः) कर्मों द्वारा (गाः) वेदवाणियों को (इयानासः) पा लेनेवाले (ते) उन [विद्वानों] ने (गोपतिम्) वेदवाणी के स्वामी [परमात्मा] को (इषणयन्त) खोजा है, [कि] (बृहस्पतिः) उस बृहस्पति [बड़े ब्रह्माण्डों के स्वामी परमात्मा] ने (उस्रियाः) निवास करनेवाली प्रजाओं को (मिथोअवद्यपेभिः) आपस में पाप से बचानेवाले (स्वयुग्भिः) आत्मा के साथी कर्मों से (उत्) उत्तम रीति पर (असृजत) सृजा है ॥८॥
भावार्थ - विद्वान् लोग वेदवाणी द्वारा उत्तम-उत्तम कर्म करके परमात्मा को खोजते हैं कि उसने मनुष्य आदि सृष्टि को उनके पूर्व जन्मों के कर्मफलों के अनुसार उत्पन्न किया है ॥८॥
टिप्पणी -
८−(ते) विद्वांसः (सत्येन) यथार्थेन (मनसा) चित्तेन (गोपतिम्) वेदवाणीस्वामिनम् (गाः) वेदवाणीः (इयानासः) इण् गतौ-कानच्, असुक्, च। प्राप्तवन्तः (इषणयन्त) इषु इच्छायाम्-क्यु। तत् करोति तदाचष्टे। वा० पा० ३।१।२६। इषण्-णिच्, लङ्, अडभावः। इषणमिच्छां कृतवन्तः (धीभिः) कर्मभिः (बृहस्पतिः) बृहतां ब्रह्माण्डानां स्वामी (मिथोअवद्यपेभिः) पातेः कप्रत्ययः। मिथः परस्परम् अवद्याद् निन्द्यात् पापाद् रक्षकैः (उत्) उत्तमतया (उस्रियाः) अ० २०।१६।६। निवासशीलाः प्रजाः (असृजत) अजनयत् (स्वयुग्भिः) युजिर् योगे-क्विप्। स्वेन आत्मना सह युक्तैः कर्मभिः ॥