अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 4
सूक्त - वसिष्ठः
देवता - विश्वेदेवाः, चन्द्रमाः, इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - अजरक्षत्र
तीक्ष्णी॑यांसः पर॒शोर॒ग्नेस्ती॒क्ष्णत॑रा उ॒त। इन्द्र॑स्य॒ वज्रा॒त्तीक्ष्णी॑यांसो॒ येषा॒मस्मि॑ पु॒रोहि॑तः ॥
स्वर सहित पद पाठतीक्ष्णी॑यांस: । प॒र॒शो: । अ॒ग्ने: । ती॒क्ष्णऽत॑रा: । उ॒त । इन्द्र॑स्य । वज्रा॑त् । तीक्ष्णी॑यांस: । येषा॑म् । अस्मि॑ । पु॒र:ऽहि॑त: ॥१९.४॥
स्वर रहित मन्त्र
तीक्ष्णीयांसः परशोरग्नेस्तीक्ष्णतरा उत। इन्द्रस्य वज्रात्तीक्ष्णीयांसो येषामस्मि पुरोहितः ॥
स्वर रहित पद पाठतीक्ष्णीयांस: । परशो: । अग्ने: । तीक्ष्णऽतरा: । उत । इन्द्रस्य । वज्रात् । तीक्ष्णीयांस: । येषाम् । अस्मि । पुर:ऽहित: ॥१९.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 4
विषय - युद्धविद्या का उपदेश।
पदार्थ -
वे वीर (परशोः) परसे [कुल्हाड़ी] से (तीक्ष्णीयांसः) अधिक तीक्ष्ण, (अग्नेः) अग्नि से (तीक्ष्णतराः) अधिक तीक्ष्ण (उत) और (इन्द्रस्य) मेघ के (वज्रात्) वज्र [बिजुली] से (तीक्ष्णीयांसः) अधिक तीक्ष्ण हैं, (येषाम्) जिनका मैं (पुरोहितः) पुरोहित वा मुखिया (अस्मि) हूँ ॥४॥
भावार्थ - सेनापति अपनी सेना का आत्मबल बढ़ावे। आत्मबल से अस्त्र शस्त्र आदि की अपेक्षा अधिक कार्य सिद्ध होता है ॥४॥
टिप्पणी -
४−(तीक्ष्णीयांसः) तीक्ष्ण-ईयसुन्। आत्मबले तीक्ष्णतराः। (परशोः) आङ्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। इति शॄ हिंसायाम्-कु, स च डित्। परान् शत्रून् शृणाति येन। अस्त्रविशेषात्। कुठारात्। (अग्नेः) पावकात्। (तीक्ष्णतराः) तीक्ष्ण-तरप्। निशिततराः। (उत्) अपि च। (इन्द्रस्य) वायुर्वेन्द्रो वान्तरिक्षस्थानः-निरु० ७।५। मेघस्य। (वज्रात्) विद्युतः। अन्यद्गतम्-म० १ ॥