अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 6
सूक्त - वसिष्ठः
देवता - विश्वेदेवाः, चन्द्रमाः, इन्द्रः
छन्दः - त्र्यवसाना षट्पदा त्रिष्टुप्ककुम्मतीगर्भातिजगती
सूक्तम् - अजरक्षत्र
उद्ध॑र्षन्तां मघव॒न्वाजि॑ना॒न्युद्वी॒राणां॒ जय॑तामेतु॒ घोषः॑। पृथ॒ग्घोषा॑ उलु॒लयः॑ केतु॒मन्त॒ उदी॑रताम्। दे॒वा इन्द्र॑ज्येष्ठा म॒रुतो॑ यन्तु॒ सेन॑या ॥
स्वर सहित पद पाठउत् । ह॒र्ष॒न्ता॒म् । म॒घ॒ऽव॒न् । वाजि॑नानि । उत् । वी॒राणा॑म् । जय॑ताम् । ए॒तु॒ । घोष॑: ।पृथ॑क् ।घोषा॑: । उ॒लु॒लय॑: । के॒तु॒ऽमन्त॑: । उत् । ई॒र॒ता॒म् । दे॒वा: । इन्द्र॑ऽज्येष्ठा: । म॒रुत॑: । य॒न्तु॒ । सेन॑या ॥१९.६॥
स्वर रहित मन्त्र
उद्धर्षन्तां मघवन्वाजिनान्युद्वीराणां जयतामेतु घोषः। पृथग्घोषा उलुलयः केतुमन्त उदीरताम्। देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ॥
स्वर रहित पद पाठउत् । हर्षन्ताम् । मघऽवन् । वाजिनानि । उत् । वीराणाम् । जयताम् । एतु । घोष: ।पृथक् ।घोषा: । उलुलय: । केतुऽमन्त: । उत् । ईरताम् । देवा: । इन्द्रऽज्येष्ठा: । मरुत: । यन्तु । सेनया ॥१९.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 6
विषय - युद्धविद्या का उपदेश।
पदार्थ -
(मघवन्) हे बड़े धनी राजन् ! (वाजिनानि) सेना दल (उत् हर्षन्ताम्) मन को ऊँचा उठावें और (जयताम्) जीतते हुए (वीराणाम्) वीरों का (घोषः) जयजयकार वा सिंहनाद (उत् एतु) ऊँचा उठे। (उलुलयः) जलानेवालों के जलानेवाले, (केतुमन्तः) ऊँचे झण्डावाले (घोषाः) जयजयकार शब्द (पृथक्) नाना रूप में (उत् ईरताम्) ऊपर चढ़ें। (इन्द्रज्येष्ठाः) इन्द्र प्रतापी पुरुष को ज्येष्ठ वा स्वामी रखनेवाले (मरुतः) शूर (देवाः) जय चाहनेवाले देवता लोग (सेनया) सेना के साथ (यन्तु) चलें ॥६॥
भावार्थ - समस्त सेनादल बड़ी उमंग से व्यूह बनाकर नानारूप में मारू बाजे गाजे के साथ “जय जय” करते हुए आगे बढ़ें और सब दलपति लोग प्रधान सेनापति की आज्ञानुसार अपनी-२ टुकरी लेकर धावा करें ॥६॥ यह मन्त्र कुछ भेद से ऋग्वेद १०।१०३।१० और यजुर्वेद १७।४२ में है ॥
टिप्पणी -
६−(उत् हर्षन्ताम्) उत्कर्षेण हर्षयुक्तानि भवन्तु। (मघवन्) म० ३। हे बहुधनवन्। (वाजिनानि) महेरिनण् च। उ० २।५६। इति वज गतौ-इनण्। बलानि हस्त्यश्वरथादीनि। वाजः=बलम्। निघ० २।९। (वीराणाम्) शूराणाम्। (जयताम्) जि-शतृ। जयं प्राप्नुवताम्। (उत् एतु) उद्गच्छतु। (घोषः) जयजयकारः। सिंहनादः। (पृथक्) नानारूपे (उलुलयः) उल्+उलयः। उल दाहे-क्विप्। इगुपधात् कित्। उ० ४।१२०। इति उल दाहे-इन्, स च कित्। इति उलुलिः। उलां दाहकानाम् उलयो दाहकाः शत्रुनाशकाः। (केतुमन्तः) पताकायुक्ताः। (उत् ईरताम्) ईर गतौ, अदादिः, उद्गच्छन्तु। (देवाः) विजिगीषवः। (इन्द्रज्येष्ठाः) इन्द्रः, ऐश्वर्यवान् पुरुषो ज्येष्ठः श्रेष्ठो वृद्धो वा स्वामी येषां ते तथाविधाः। (मरुतः) अ० १।२०।१। मारयन्ति दुष्टान्। शूरा देवाः। (यन्तु) गच्छन्तु। (सेनया) स्वस्वसेनया सार्धम् ॥