अथर्ववेद - काण्ड 3/ सूक्त 26/ मन्त्र 2
सूक्त - अथर्वा
देवता - दक्षिणदिक् सकामा अविष्यवः
छन्दः - जगती
सूक्तम् - दिक्षु आत्मारक्षा सूक्त
ये॒स्यां स्थ दक्षि॑णायां दि॒श्य॑वि॒ष्यवो॒ नाम॑ दे॒वास्तेषां॑ वः॒ काम॒ इष॑वः। ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
स्वर सहित पद पाठये । अ॒स्याम् । स्थ । दक्षि॑णायाम् । दि॒शि । अ॒वि॒ष्यव॑: । नाम॑ । दे॒वा: । तेषा॑म् । व॒: । काम॑: । इष॑व:। ते । न॒: । मृ॒ड॒त॒ । ते । न॒: । अधि॑ । ब्रू॒त॒ । तेभ्य॑: । व॒: । नम॑: । तेभ्य॑: । व॒: । स्वाहा॑ ॥२६.२॥
स्वर रहित मन्त्र
येस्यां स्थ दक्षिणायां दिश्यविष्यवो नाम देवास्तेषां वः काम इषवः। ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥
स्वर रहित पद पाठये । अस्याम् । स्थ । दक्षिणायाम् । दिशि । अविष्यव: । नाम । देवा: । तेषाम् । व: । काम: । इषव:। ते । न: । मृडत । ते । न: । अधि । ब्रूत । तेभ्य: । व: । नम: । तेभ्य: । व: । स्वाहा ॥२६.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 26; मन्त्र » 2
विषय - मारू गीत।
पदार्थ -
(ये) जो तुम (अस्याम्) इस (दक्षिणायाम्) दक्षिण वा दाहिनी (दिशि) दिशा में (अविष्यवः) रक्षा की इच्छावाले (नाम) नाम (देवाः) विजय चाहनेवाले वीर (स्थ) हो, (तेषाम् नः) उन तुम्हारा (कामः) मनोरथ (इषवः) तीर हैं, (ते) वे तुम (नः) हमें.... [म० १] ॥२॥
भावार्थ - दक्षिण दिशा वा दाहिनी ओर वाले रक्षक विजयी वीर दृढ़ मनोरथ से शत्रुओं को जीतकर... [म० १] ॥२॥
टिप्पणी -
२−(दक्षिणायाम्) स्याडभावश्छान्दसः। दक्षिणस्याम्। दक्षिणहस्तस्थितायाम् (अविष्यवः) अर्चिशुचि.....इसिः। उ० २।१०८। इति अव रक्षणे-इसि। इति अविः, रक्षणम्। छन्दसि परेच्छायामपि। वा० पा० ३।१।८। इति क्यच्। क्याच्छन्दसि। पा० ३।२।१७०। इति उ प्रत्ययः। अवनेच्छयः। पररक्षणेच्छवः। (कामः) दृढमनोरथः। इष्टविषयोऽभिलाषः। अन्यद्गतम्-म० १ ॥