अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 4
सूक्त - अथर्वा
देवता - चन्द्रमाः, सांमनस्यम्
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
येन॑ दे॒वा न वि॒यन्ति॒ नो च॑ विद्वि॒षते॑ मि॒थः। तत्कृ॑ण्मो॒ ब्रह्म॑ वो गृ॒हे सं॒ज्ञानं॒ पुरु॑षेभ्यः ॥
स्वर सहित पद पाठयेन॑ । दे॒वा: । न । वि॒ऽयन्ति॑ । नो इति॑ । च॒ । वि॒ऽद्वि॒षते॑ । मि॒थ: । तत् । कृ॒ण्म॒: । ब्रह्म॑ । व॒: । गृ॒हे । स॒म्ऽज्ञान॑म् । पुरु॑षेभ्य: ॥३०.४॥
स्वर रहित मन्त्र
येन देवा न वियन्ति नो च विद्विषते मिथः। तत्कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥
स्वर रहित पद पाठयेन । देवा: । न । विऽयन्ति । नो इति । च । विऽद्विषते । मिथ: । तत् । कृण्म: । ब्रह्म । व: । गृहे । सम्ऽज्ञानम् । पुरुषेभ्य: ॥३०.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 4
विषय - परस्पर मेल का उपदेश।
पदार्थ -
(येन) जिस [वेद पथ] से (देवाः) विजय चाहनेवाले पुरुष (न) नहीं (वियन्ति) विरुद्ध चलते हैं (च) और (नो) न कभी (मिथः) आपस में (विद्विषते) विद्वेष करते हैं। (तत्) उस (ब्रह्म) वेद पथ को (वः) तुम्हारे (गृहे) घर में (पुरुषेभ्यः) सब पुरुषों के लिये (संज्ञानम्) ठीक-ठीक ज्ञान का कारण (कृण्मः) हम करते हैं ॥४॥
भावार्थ - सार्वभौम हितकारी वेदमार्ग पर चलकर घर के सब लोग आनन्द भोगें ॥४॥
टिप्पणी -
४−(देवाः) विजिगीषवः (वियन्ति) इण् गतौ। विरुद्धं गच्छन्ति (विद्विषते) द्विष अप्रीतौ-अदादिः। विद्वेषं कुर्वते (मिथः) परस्परम् (कृण्मः) कृवि हिंसाकरणयोः। कुर्मः (ब्रह्म) वेदज्ञानम् (संज्ञानम्) सम्यग् ज्ञानम्। अन्यत् सुगमम् ॥