अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 7
सूक्त - अथर्वा
देवता - चन्द्रमाः, सांमनस्यम्
छन्दः - त्रिष्टुप्
सूक्तम् - सांमनस्य सूक्त
स॑ध्री॒चीना॑न्वः॒ संम॑नसस्कृणो॒म्येक॑श्नुष्टीन्त्सं॒वन॑नेन॒ सर्वा॑न्। दे॒वा इ॑वा॒मृतं॒ रक्ष॑माणाः सा॒यंप्रा॑तः सौमन॒सो वो॑ अस्तु ॥
स्वर सहित पद पाठस॒ध्री॒चीना॑न् । व॒: । सम्ऽम॑नस: । कृ॒णो॒मि॒ । एक॑ऽश्नुष्टीन् । स॒म्ऽवन॑नेन । सर्वा॑न् । दे॒वा:ऽइ॑व । अ॒मृत॑म् । रक्ष॑माणा: । सा॒यम्ऽप्रा॑त: । सौ॒म॒न॒स: । व॒: । अ॒स्तु॒ ॥३०.७॥
स्वर रहित मन्त्र
सध्रीचीनान्वः संमनसस्कृणोम्येकश्नुष्टीन्त्संवननेन सर्वान्। देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥
स्वर रहित पद पाठसध्रीचीनान् । व: । सम्ऽमनस: । कृणोमि । एकऽश्नुष्टीन् । सम्ऽवननेन । सर्वान् । देवा:ऽइव । अमृतम् । रक्षमाणा: । सायम्ऽप्रात: । सौमनस: । व: । अस्तु ॥३०.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 7
विषय - परस्पर मेल का उपदेश।
पदार्थ -
(संवननेन) यथावत् सेवन वा व्यापार से (वः सर्वान्) तुम सबको (सध्रीचीनान्) साथ-साथ गति [उद्योग वा ज्ञान] वाले, (संमनसः) एक मन वाले और (एकश्नुष्टीन्) एक भोजनवाले (कृणोमि) मैं करता हूँ। (देवाः इव) विजय चाहनेवाले पुरुषों के समान (अमृतम्) अमरपन [जीवन की सफलता] को (रक्षमाणाः) रखते हुए तुम [बने रहो] (सायं प्रातः) सायंकाल और प्रातःकाल में (सौमनसः) चित्त की प्रसन्नता (वः) तुम्हारे लिये (अस्तु) होवे ॥७॥
भावार्थ - ‘देव’ पुरुषार्थी विजयी पुरुष मिलकर मृत्यु के कारण आलस्य आदि छोड़ने से अमर अर्थात् यशस्वी होते हैं। इसी प्रकार सब मनुष्य आपस में मिलकर उद्योग करके सुखी रहें और सायं प्रातः दो काल परमेश्वर की आराधना करके चित्त प्रसन्न करें ॥७॥
टिप्पणी -
७−(एकश्नुष्टीन्) ष्णसु अदने, आदाने, च-क्तिन्। एकभुक्तीन्। समानभोजनान्। (संवननेन) वन संभक्तौ-ल्युट्। सम्यक् सेवनेन व्यापारेण। (देवाः) विजिगीषवः। पुरुषार्थिनः। (अमृतम्) अमरत्वम्। जीवनसाफल्यम्। (रक्षमाणाः) पालयन्तो भवत-इति शेषः (सायंप्रातः) उभयसंध्याकाले। (सौमनसः) तस्येदम्। पा० ४।३।१२०। इति सुमनस्-भावे अण्। सुमनसो भावः। सुहृद्भावः। चित्तप्रसादः। अन्यद्गतम् ॥