अथर्ववेद - काण्ड 3/ सूक्त 5/ मन्त्र 7
सूक्त - अथर्वा
देवता - सोमः, पर्णमणिः
छन्दः - अनुष्टुप्
सूक्तम् - राजा ओर राजकृत सूक्त
ये राजा॑नो राज॒कृतः॑ सू॒ता ग्रा॑म॒ण्य॑श्च॒ ये। उ॑प॒स्तीन्प॑र्ण॒ मह्यं॒ त्वं सर्वा॑न्कृण्व॒भितो॒ जना॑न् ॥
स्वर सहित पद पाठये । राजा॑न: । रा॒ज॒ऽकृत॑: । सू॒ता: । ग्रा॒म॒ण्या᳡: । च॒ । ये । उ॒प॒ऽस्तीन् । प॒र्ण॒ । मह्य॑म् । त्वम् । सर्वा॑न् । कृ॒णु॒ । अ॒भित॑: । जना॑न् ॥५.७॥
स्वर रहित मन्त्र
ये राजानो राजकृतः सूता ग्रामण्यश्च ये। उपस्तीन्पर्ण मह्यं त्वं सर्वान्कृण्वभितो जनान् ॥
स्वर रहित पद पाठये । राजान: । राजऽकृत: । सूता: । ग्रामण्या: । च । ये । उपऽस्तीन् । पर्ण । मह्यम् । त्वम् । सर्वान् । कृणु । अभित: । जनान् ॥५.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 5; मन्त्र » 7
विषय - तेज, बल, आयु, धनादि बढ़ाने का उपदेश।
पदार्थ -
(ये) जो (राजानः) ऐश्वर्यवाले (राजकृतः) राजाओं के बनानेवाले, (च) और (ये) जो (सूताः) सर्वप्रेरक, (ग्रामण्यः) ग्रामों के नेता लोग हैं। (पर्ण) हे पालन करनेवाले परमेश्वर ! (त्वम्) तू (मह्यम्) मेरेलिए (सर्वान्) उन सब (जनान्) जनों को (अभितः) चारों ओर से (उपस्तीन्) समीपवर्ती (कृणु) कर ॥७॥
भावार्थ - चक्रवर्ती राजा सबके राजाधिराज परमेश्वर का ध्यान करता हुआ अपने हितकारी माण्डलिक राजाओं और अन्य प्रधान पुरुषों को यथोचित व्यवहार से अपना इष्ट मित्र बनाये रक्खे ॥७॥
टिप्पणी -
७−(ये)। हितकारिणः। (राजानः)। राजृ दीप्तौ, ऐश्ये च-कनिन्। दीप्यमानाः। ऐश्वर्यवन्तः। (राजकृतः)। राजन्+कृञ् करणे-क्विप्, तुक् च। राज्ञां कर्तारः, अभिषेचकाः। (सूताः)। षू प्रेरणे, ऐश्वर्ये, प्रसवे च-क्त। प्रेरकाः। ऐश्वर्यवन्तः। सूर्याः, सूर्यवत्तेजस्विनः। (ग्रामण्यः)। ग्राम+णीञ् प्रापणे-क्विप्। ग्रामं संवसथं तत्रत्यान् जनान् नयतीति ग्रामणीः। प्रधानाः। अधिपतयः। अन्यद् व्याख्यातं म० ६ ॥