अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - वरुणः
छन्दः - अनुष्टुप्
सूक्तम् - सत्यानृतसमीक्षक सूक्त
बृ॒हन्नेषामधिष्ठा॒ता अ॑न्ति॒कादि॑व पश्यति। यस्ता॒यन्मन्य॑ते॒ चर॒न्त्सर्वं॑ दे॒वा इ॒दं वि॑दुः ॥
स्वर सहित पद पाठबृ॒हन् । ए॒षा॒म् । अ॒धि॒ऽस्था॒ता । अ॒न्ति॒कात्ऽइ॑व । प॒श्य॒ति॒ । य: । स्ता॒यत् । मन्य॑ते । चर॑न् । सर्व॑म् । दे॒वा: । इ॒दम् । वि॒दु॒: ॥१६.१॥
स्वर रहित मन्त्र
बृहन्नेषामधिष्ठाता अन्तिकादिव पश्यति। यस्तायन्मन्यते चरन्त्सर्वं देवा इदं विदुः ॥
स्वर रहित पद पाठबृहन् । एषाम् । अधिऽस्थाता । अन्तिकात्ऽइव । पश्यति । य: । स्तायत् । मन्यते । चरन् । सर्वम् । देवा: । इदम् । विदु: ॥१६.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 1
विषय - वरुण की सर्वव्यापकता का उपदेश।
पदार्थ -
(एषाम्) इन [लोकों] का (बृहन्) बड़ा (अधिष्ठाता) अधिष्ठाता [वह वरुण] (अन्तिकात् इव) समीप में वर्तमान सा (पश्यति) देखता है, (यः) जो [वरुण] (तायत्) विस्तार वा पालन (चरन्) करता हुआ (सर्वम्) सब जगत् को (मन्यते) जानता है। (देवाः) व्यवहार में कुशल देवता लोग (इदम्) यह बात (विदुः) जानते हैं ॥१॥
भावार्थ - परमात्मा सर्वनियन्ता, सर्वज्ञाता, सर्वस्रष्टा और सर्वरक्षिता है, इस बात को ऋषि महात्मा साक्षात् करते हैं ॥१॥
टिप्पणी -
१−(बृहन्) महान् (एषाम्) दृश्यमानानां लोकानाम् (अधिष्ठाता) नियन्ता (अन्तिकात् इव) समीपदेशाद् यथा (पश्यति) अवलोकयति (यः) वरुणः (तायत्) वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च। उ० २।८४। इति तायृ सन्तानपालनयोः-अति। विस्तारम्। पालनम् (मन्यते) जानाति (चरन्) चर आचारे-शतृ। कुर्वन् सन् (सर्वम्) सरणशीलं जगत् (देवाः) व्यवहारकुशलाः। विद्वांसः (इदम्) निर्दिष्टं वृत्तम् (विदुः) विदन्ति। जानन्ति। साक्षात् कुर्वन्ति ॥